________________
१०८
सारस्वतव्याकरणम् ।
[वृत्तिः १
ह्यो भवो ह्यस्तनः । श्वो भवः श्वस्तनः । पुरा भवः पुरातनः । चिरं भवश्चिरंतनः । सायं भवः सायंतनः । प्राले भवः प्रालेतनः ॥५८६ चिरादिभ्यस्नः ३० ॥ चिरपरूपरारिभ्यस्त्रो भवाद्यर्थे । चिरं भवश्विरत्नः ॥ परू भवः परूनः । परारि भवः परारित्नः ॥ ५८७ स्वार्थेऽपि ३१ ॥ उक्ताः प्रत्ययाः खार्थेऽपि भवन्ति ॥ देवदत्त एव दैवदत्तिकः । चत्वारो वर्णा एव चातुर्वर्ण्यम् । चोर एव चौरः ॥ ५८८ अव्ययसर्वनाम्नामकच् प्राक् टेः ३२॥ अव्ययस्य सर्वादेश्चान्त्यवरात्पूर्वोऽकच्प्रत्ययो भवति ॥ उच्चैरेवोच्चकैः । नीचैरेव नीचकैः । सर्व एव सर्वकः । विश्व एव विश्वकः । मया एव मयका। त्वया एव त्वयका । तदेव तकत् । यदेव यकत् । एतदेव एतकत् ।। ५८९ अणीनयोर्युष्मदस्मदोस्तकादिः ३३ ॥ अण् च ईनश्च अणीनौ तयोः अणीनयोः । अणीनयोः प्रत्यययोः परतो युष्मदस्मदोस्तवकादय आदेशा भवन्ति ॥ आदिशब्दात्तवकममकयुष्माकास्माकाः। एकत्वे तवकममको ॥ द्वित्वे बहुत्वे च युष्माकास्माको । तवेदं तावकम् । ममेदं मामकम् । तवायं तावकीनः । ममायं मामकीनः । युवयोरयं यौष्माकः । आवयोरयमास्माकः । युवयोरयं यौष्माकीणः । आवयोरयमास्माकीनः । युष्माकमयं यौष्माकः । अस्माकमयमास्माकः । युष्माकमयं यौष्माकीणः । अस्माकमयमामाकीनः ॥ ५९० वत्तुल्ये ३४ ॥ तुल्ये सादृश्येऽर्थे वतुः प्रत्ययो भवति ॥ चन्द्रेण तुल्यं चन्द्रवन्मुखम् । घटेन तुल्यं घटवदुदरम् । पटेन तुल्यं पटवत्कम्बलम् ॥ ५९१ भावे तत्वयणः ३५ ॥ भावे तश्च त्वश्च यण् च ते तत्त्वयणः । शब्दस्य प्रवृत्तिनिमित्तं भावः तस्मिन्भावे त त्व यण् इत्येते प्रत्यया भवन्ति ॥ ब्राह्मणस्य भावो ब्राह्मणता । तान्तस्य नित्यं स्त्रीलिङ्गत्वादाप् ॥ ५९२ समाहारे ता