SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सू०५९३-६१२] तद्वितप्रकरणम् १७ १०९ च त्रेर्गुणश्च ३६ ॥ त्रयाणां समाहारस्त्रेता । चकारात्समूहे प्रत्ययान्तरमपि । तेन हस्तिनां समूहो हास्तिकम् । धेनूनां समूहो धैनुकम् । अत्र कप्रत्ययः । तस्य णित्वादादिवृद्धिः ॥ ५९३ अचित्तवाचकादिकः ३७ ॥ कवचानां समूहः कावचिकम् । अपूपानां समूहः आपूपिकम् । शष्कुलीनां समूहः शाष्कुलिकम् ॥ ५९४ कवचिन्शब्दादिकः ३८ ॥ कवचिनां समूहः कावचिकम् ॥ ५९५ गणिकाया ण्यः ३९ ॥ गणिकानां समूहो गाणिक्यम् ॥ ५९६ केदाराद्यञ् च ४० ॥ चकारादिकः । केदाराणां समूहः कैदार्यम् । कैदारिकम् ॥ ५९७ युवत्यादेरण ४१॥ युवतीनां समूहो यौवतम्। भिक्षाणां समूहो भैक्षम् ॥ ५९८ पाशादिभ्यो यः ४२ ॥ स च स्त्रियाम् ॥ पाशानां समूहः पाश्या । वातानां समूहो वात्या । रथानां समूहो रथ्या । खलानां समूहः खल्या ॥ ५९९ खलगोरथेभ्य इनित्रकव्याः ४३ ॥ इनिः खलिनी । रथानां समूहो रथकट्या । रथ्येत्यपि । गवां समूहो गोत्रा । गव्येत्यादिप्रयोगा ऊह्याः । जनानां समूहो जनता । ब्राह्मणस्य भावो ब्राह्मणत्वं । त्वयणन्तं नपुंसकम् । ब्राह्मणस्य भावो ब्राह्मण्यम् । सुमनसो भावः सौमनस्यम् । सुभगस्य भावः सौभाग्यम् । विदुषो भावो वैदुष्यम् । वसोर्व उः (सू० ३०२)॥६०० कर्मण्यपि यण् वक्तव्यः ४४ ॥ कर्मण्यपीत्यपि शब्दात्साध्वर्थे यण् तस्य णित्वं न । सामनि साधुः सामन्यः । कर्मणि साधुः कर्मण्यः । सभायां साधुः सभ्यः । ब्राह्मणस्येदं कर्म ब्राह्मण्यम् । राज्ञ इदं कर्म राजन्यम्-राज्यम् । नो वा (सू० ५३४) इति टेर्लोपः । अन्यत्रापि यण् प्रत्ययः ॥ ६०१ समानस्य वा स इत्यादेशः ४५॥ समाने उदरे शयितः समानोदयः । सोदयः । शतेन क्रीतः शत्यः ॥६०९ लोहितादेर्डिदिमन् ४६ ॥ लोहिता
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy