SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११० सारस्वतव्याकरणम् । [ वृत्तिः १ 1 देर्गणाद्भावेर्थे इमन् प्रत्ययो भवति स इमन् डित्संज्ञो भवति । डित्वाट्टिलोपः ॥ लोहितस्य भावो लोहितिमा । लोहितादेरिति अनेकखरात् डित् वक्तव्यः । यत्र एकखरस्तत्र न डित् । लोहितादेरिमन् वैकल्पिकः । तेन लौहित्यम् । लोहितत्वम् । कालस्य भावः कालिमा । लघोर्भावो लघिमा । अणोर्भावः अणिमां । गुर्वादेः ( सू० ६५६ ) इति गुरोर्गरादेशः । गुरोर्भावो गरिमा । वरस्य भावो वरिमा || ६०३ इमनि लोपः ४७ ॥ इमनि प्रत्यये परे वकारस्य लोपो भवति ॥ स्थूलस्य भावः स्थेमा | स्थूलस्य स्थवादेशः ॥ ६०४ ऋ र इमनि ४८ ॥ इमनि प्रत्यये परे हसादेर्लघोऋकारस्य रो भवति ॥ पृथोर्भावः प्रथिमा । दृढस्य भावो द्रढिमा । मृदोर्भावो प्रदिमा | भृशस्य भावो भ्रशिमा । कृशस्य भावः ऋशिमा । हसादित्वाभावात् ऋजोर्भावो ऋजिमा । लघुत्वाभावात् कृष्णस्य भावः कृष्णिमा । संयोगपूर्वकत्वान्न लघुः । बहोर्भाव इति विग्रहे ॥ ६०५ बहोरिलोपो भू च बहोः ४९ ॥ बहोरुत्तरेषामिमनादीनामिकारस्य लोपो भवति बहोः स्थाने भू चादेशः || भूमा || ६०६ अस्त्यर्थे मतुः ॥ ५० नाम्नो मतुः प्रत्ययो भवति अस्यास्मिन्वास्तीत्येतस्मिन्नर्थे ॥ उकारो नुम्विधानार्थः । गौरस्यास्तीति गोमान् - गोमती ॥ ६०७ फलबर्हरथेभ्य इनेनौ वा वक्तव्यौ ५१ ॥ फलमस्यास्तीति फलिनः - फली । बर्हमस्यास्तीति बर्हिणः बहीं । रथोऽस्यास्तीति रथि - नः - रथी || ६०८ बलवाताभ्यामूलः ५२ ॥ बलूलः । वातूलः ॥ ६०९ वातातिसाराभ्यां किन् ५३ ॥ वातकी । अतिसारकी ॥ ६१० ऊर्णाहंशुभंभ्यो युः ५४ ॥ अस्त्यर्थे ॥ ऊर्णायुः । अहंयुः । शुभंयुः ॥ ६११ अर्णः केशयोर्व: ५५ ॥ अर्णसः सलोपश्च । अर्णवः केशवः ॥ ६१२ शंकंभ्यां बभयुस्ततुतयसः ५६ ॥ आभ्यामेते
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy