SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सू० ६१३-६३०] तद्धितप्रकरणम् १७ प्रत्ययाः स्युरस्त्यर्थे । शं विद्यते यस्यासौ शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । कं विद्यते यस्यासौ कंबः । कंभः। कंयुः । कतिः । कंतुः । कंतः । कंयः । इत्यादि ॥ ६१३ लोमादिभ्यः शः ५७ ॥ लोमशः ॥ ६१४ पामदेिनः ५८॥ पामनः। अङ्गना ॥ ६१५ पिच्छादेरिलच् ५९ ॥ पिच्छिलः ॥ ६१६ फेनादिभ्य इलच् ६० ॥ फेनिलः ॥ ६१७ तुन्दिवलिवटिभ्यो भः ६१ ॥ तुन्दिभः । वलिभः । वटिभः ॥ ६१८ कृष्यादिभ्यो वलच दीर्घश्व ६२ ॥ कृषीवलः ॥ ६१९ प्रज्ञा श्रद्धावृत्तिभ्योऽण् ६३ ॥ प्रज्ञाऽस्यास्तीति प्राज्ञः । आर्चः। श्राद्धः । वार्तः।। ६२० शृङ्गवृन्दाभ्यामारकच ६४ ॥ प्रशस्तं शृङ्गमस्यास्तीति शृङ्गारकः । प्रशस्तं वृन्दमस्यास्तीति वृन्दारकः ॥ ६२१ मध्वादे : ६५ ॥ मधुरः मुखरः । शुषिरः । रन्ध्रवानित्यर्थः । कुञ्जरः । कुञ्जो हस्तिहनुः ॥ ६२२ सिध्मादेलः ६६॥सिध्मास्यास्तीति सिध्मलः । चूडास्यास्तीति चूडालः ॥ ६२३ अइकौ च मत्वर्थे ६७ ॥ मत्वर्थे अइको प्रत्ययौ भवतः ॥ वैजयन्ती पताका यस्यासौ वैजयन्तः । माया विद्यते यस्यासौ मायिकः॥६२४ मान्तोपधाद्वत्विनौ ६८ ॥ मान्तोपधात् वत्विनौ स्तः । मश्च अश्व मौ। अन्तश्च उपधा च अन्तोपधे । मौ अन्तोपधे यस्यासौ.मान्तोपधस्तस्माद्वत्विनौ। मकारान्तान्मकारोपधादकारान्तादकारोपधाच्च वत्विनौ प्रत्ययौ भवतः अस्त्यर्थे । मघोऽस्यास्तीति मेघवान् ॥ श्रियां यशसि सौभाग्य योनौ कान्तौ महिनि च । सूर्ये संज्ञाविशेषे च मृगाङ्केऽपि भगः स्मृतः ॥१०॥ भगं भाग्यं विद्यते यस्यासौ भगवान् । लक्ष्मीरस्यास्तीति लक्ष्मी१ आदिशब्दादङ्गनेत्यादीनां संग्रहः । २ मघवा इन्द्रः । -
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy