SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११२ सारस्वतव्याकरणम् । [वृत्तिः१ चान् । पुत्रोऽस्यास्तीति पुत्रवान् । धनमस्यास्तीति धनवान्-धनी । छत्रमस्यास्तीति छत्रवान्-छत्री । इनां शौ सौ (सू० २६१) दण्डो विद्यते यस्यासौ दण्डवान्-दण्डी। क्षेत्रं विद्यते यस्यासौ क्षेत्रवान् क्षेत्री । विद्यास्यास्तीति विद्यावान् । दृषदो विद्यन्ते यस्यासौ दृषद्वान् दृषद्वती भूमिः । टिव्रतः ( सू० ३७४) यशोऽस्यास्तीति यशखान् । किं विद्यते यस्यासौ किंवान् । कामो विद्यते यस्यासौ कामी । कृमयो विद्यन्ते यस्यासौ कृमिवान् । शमोऽस्यास्तीति शमी । दमोऽस्यास्तीति दमी ॥ ६२५ तडिदादिभ्यश्च ६९ ॥ तडिदादिभ्यः शब्देभ्यो वतुप्रत्ययो भवति ।। तडिद्विद्यते यस्यासौ तडित्त्वान् । भानि नक्षत्राणि विद्यन्ते यस्यासौ भवान् । यशखान् । मरुद्विद्यते यस्यासौ मरुत्वान् ॥ ६२६ तकारान्तस्य सकारान्तस्य हसादावस्त्यर्थे प्रत्यये परे अपदान्तता वक्तव्या ७० ॥ यस्वरादौ प्रत्ययमाने परे सर्वेषामपदान्तता भवति । ईये परे पदान्तता । तेन भवदीयम् ॥ ६२७ एतत्कियत्तयः परिमाणे वतुः ७१ ॥ एतत्कियत्तभ्यः शब्देभ्यः परिमाणेऽर्थे वतुप्रत्ययो भवति ॥ ६२८ यत्तदोरा ७२ ॥ यत्तदोटेरात्वं भवति वतौ परे ॥ यत्परिमाणमस्येति यावान् । तावान् ।। ६२९ किमः किर्यश्च ॥ ७३ किम्शब्दस्य किरादेशो भवति वतोर्वकारस्य यकारादेशो भवति ॥ किं परिमाणमस्येति कियान् ॥ ६३० आ इश्चैतदो वा ७४ ॥ एतदष्टेर्वा आत्वं भवति वतौ परे॥ यस्मिन्पक्षे आत्वं न तस्मिन्पक्षे इशादेशः स्यात् ।। शकारः सर्वादेशार्थः ॥ चकाराद्वतोर्वकारस्य यकारः ॥ एतत्परिमाणमस्येति एतावान् । इयान् ॥ वाशब्दोऽनुक्तसमुच्चयार्थः । तेन इदमो वतुप्रत्ययः । इदम इश् चकाराद्वतोर्वकारस्य यश्चेति वाच्यम् । इदं ता भवति । इयमवतुः ७१ ॥ तारा ७२ ॥ य
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy