________________
सू० ६३१-६५२] तद्धितप्रकरणम् १७
११३ परिमाणं यस्य स इयान् । शकारः सर्वादेशार्थः ॥ ६३१ तुन्दादेरिलः ७५ ॥ तुन्दादेर्गणात् इलप्रत्ययो भवति ॥ प्रशस्तं तुन्दं यस्यासौ तुन्दिलः । उदरिलः ॥ ६३२ औन्नत्ये दन्तादुरः ७६ ॥
औन्नत्येऽर्थे वाच्ये सति दन्तशब्दादुरः प्रत्ययो भवति ॥ उन्नता दन्ता यस्यासौ दन्तुरः ॥ ६३३ श्रद्धादेलः ७७ ॥ श्रद्धा विद्यते यस्यासौ श्रद्धालुः । कृपा विद्यते यस्यासौ कृपालुः । मायालुः । दयालुः ॥ ६३४ सिध्मादेलः ७८ ॥ सिध्मलः । स्नेहिलः ॥६३५ अस्सायामेधास्रग्भ्योऽस्त्यर्थे विनिर्वक्तव्यः ७९ ॥ तपो विद्यते यस्यासौ तपखी । यशखी । मायावी । मेधावी। स्रक् विद्यते यस्यासौ स्रग्वी ॥ ६३६ वाचो ग्मिनिः ८० ॥वाच्शब्दात् ग्मिनिः प्रत्ययो भवति अस्त्यर्थे ॥ ग्मिनो गकारो व्यवधानार्थः । तेन अमे ञमा वा (सू० ७३ ) इत्यस्याप्राप्तिः । प्रशस्ता वाक् विद्यते यस्यासौ वाग्मी ।। ६३७ एकादाकिनिच्चासहाये ८१ ॥ न विद्यते एकः सहायो यस्य स एकाकी । स्त्री चेत् एकाकिनी ॥ ६३८ आलाटौ कुत्सितभाषिणि ८२ ॥ कुत्सितभाषिण्यर्थे वाच्ये सति आलाटौ प्रत्ययौ भवतः ॥ आलप्रत्ययो बहुभाषित्वे कुत्सितभाषित्वे च। आटप्रत्ययस्तु केवलकुत्सितभाषित्वे ॥ कुत्सिता वाक् विद्यते यस्यासौ वाचालः । एवं वाचाटः ॥ ६३९ लः समाहारप्रकृष्टयोः ८३ ॥ नाम्नः समाहारप्रकृष्टयोर्विषये लः प्रत्ययो भवति ॥ क्लेशस्य समूहः, प्रकृष्टः क्लेशो वा क्लेशलः ॥ ६४० ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः ८४ ॥ ईषदपरिसमाप्तः सर्वज्ञ इति सर्वज्ञकल्पः । ईषदपरिसमाप्तः पटुरिति पटुदेश्यः । पटुदेशीयः । ईषदूनः कविरिति कविदेश्यः । कविदेशीयः ॥ ६४१ प्रशंसायां रूपः ८५॥ प्रशंसायां रूपः प्रत्ययो भवति ॥ प्रशस्तो वैयाकरणो वैयाकरणरूपः ।।