________________
५६
सारस्वतव्याकरणम् ।
[वृत्तिः १ भवन्तम् भवन्तौ भवतः । भवता भवद्भ्याम् भवद्भिः । भवते भवद्भ्याम् भवद्भ्यः । भवतः भवद्भ्याम् भवभ्यः । भवतः भवतोः भवताम् । भवति भवतोः भवत्सु । हेभवन् हेभवन्तौ हेभवन्तः ।। असन्तस्येत्यसुप्रत्ययान्तस्येति विवक्षितम् । तेन पिण्डं असतीति पिण्डनः पिण्डग्रसौ पिण्डग्रसः । पिण्डग्रसम् पिण्डग्रसौ पिण्डग्रसः इत्यादि ॥ ऋकारानुबन्धस्य भवत्शब्दस्य नुगागम एव । अत्वन्तत्वाभावान्न दीर्घः । वृतो नुम् (सू० २९२) संयोगान्तस्य लोपः (सू० २३५) भवन् भवन्तौ भवन्तः । भवन्तम् भवन्तौ भवतः भवता भवद्भ्याम् भवद्भिः। भवत्सु । इत्यादि । हेभवन् हेभवन्तौ हेभवन्तः ॥ एवं पचनशब्दः । पचन् पचन्तौ पचन्तः । पचन्तम् पचन्तौ पचतः । पचत्सु । इत्यादि ॥ हेपचन् हेपचन्तौ हेपचन्तः ॥ २९५ द्विरुक्तानां जक्षादीनां च शतुर्नुमप्रतिषेधः पुंलिङ्गे नित्यं वक्तव्यो नपुंसके वा शौ च ६३ ॥ दधत्-दधदू दधतौ दधतः । दधतम् दधतौ दधतः । दधता दधद्भ्याम् दधद्भिः । इत्यादि ॥ नपुंसके दधत्-दधद् दधती दधति-दधन्ति । जक्ष जागृ दरिद्रा शास् दीधी वेवी चकास् एते जक्षादयः ॥ शकारान्तो विशशब्दः । छशषराजादेः षः (सू० २७६) इति षत्वम् । षो डः ( सू० २७७ ) इति डत्वम् । वावसाने ( सू० २४० ) चपा जबाश्च । विट्-विड् विशौ विशः । विशम् विशौ विशः। विशा विड्भ्याम् विभिः । विट्सु । इत्यादि । हेविट हेविड हेविशौ हेविशः ॥ षकारान्तः षष्शब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः । षष् जस् इति स्थिते । जसूशसोर्लक् (सू० २६४ ) षो डः (सू० २७७) वावसाने ( सू० २४०) षट् षड्भिः षड्भ्यः षड्भ्यः । ष्णः (सू० २६६ ) इति नुट् । षो डः (सु० २७७)