SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सू० २९२-२९५] हसान्ताः पुंलिङ्गाः ९ एवं सम्यचूशब्दः । सम्यङ् सम्यञ्चौ सम्यञ्चः । सम्यञ्चम् सम्यञ्चौ समीचः । समीचा इत्यादि ॥ ककारान्तो मरुच्छब्दः । हसे पः सेर्लोपः (सू० १५६) वावसाने (सू० २४० ) मरुत्-मरुद् मरुतौ मरुतः । मरुतम् मरुतौ मरुतः । मरुता मरुद्भ्याम् मरुद्भिः । इत्यादि । हेमरुत्-हेमरुद् हेमरुतौ हेमरुतः ॥ एवं अमिचित्प्रभृतयः॥ अग्निचित-अग्निचिद् अग्निचितौ अग्निचितः । हेअमिचित्-हेअमिचिदू हेअग्निचितौ हेअग्निचितः ॥ तकारान्त उकारानुबन्धो महच्छब्दः ॥ २९२ बितो नुम् ६० ॥ उश्च ऋश्व वृ । वृ इत् यस्य सः वित् तस्य वितः नुम् । उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमागमो भवति पुंसि पञ्चसु परेषु ॥ २९३ सम्महतोऽधौ दीर्घः शौ च ६१ ॥ न्च सूच अपच महांश्च एतेषां समाहारः सम्महतः तस्य न्सम्महतः अधौ दीर्घः शौ चेत्यन्वयः । सन्तस्यापशब्दस्य महच्छब्दस्य च दीर्घो भवति पञ्चसु परेषु धिवर्जितेषु शौ च परे ॥ संयोगान्तस्य लोपः (सू० २३५) महान् । नश्वापदान्ते झसे (सू० ९५) महान्तौ महान्तः । महान्तम् महान्तौ महतः । महता महद्भ्याम् महद्भिः । महते महद्भ्याम् महन्यः । इत्यादि हेमहन् हेमहान्तौ हेमहान्तः । न्सन्तस्येत्यागमजनकारयुक्तसान्तस्य ज्ञेयम् । तेन कंसशब्दस्य किबन्तस्य न दीर्घः। संयोगान्तस्य लोपः ( सू० २३५) कन् कंसौ कंसः। कंसम् कंसौ कंसः। कंसा कन्भ्याम् कन्भिः। कन्सु । हेकन् ॥ शोभना आपो यस्मिन्नसौ खाप खाबू खापौ खापः ॥ खाम्पि तडागानि । तकारान्त उकारानुबन्धो भवच्छब्दः । वृतो नुम् (सू० २९२) इति नुमागमः ॥ २९४ अत्वसोः सौ ६२ ॥ अत्वसोः सौ इति धातोनेष्यते । अत्वन्तस्यासन्तस्य च दी| भवति धिवर्जिते सौ परे । संयोगान्तस्य (सू०२३५) हसे पः (सू०) भवान् भवन्तौ भवन्तः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy