SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५४ सारस्वतव्याकरणम् । [वृत्तिः१ च॥प्रतीचः । निमित्ताभावे नैमित्तिकस्याप्यभावः। प्रतीचा। चोः कुः (सू० २८५) प्रत्यग्भ्याम् प्रत्यग्भिः। प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः । प्रत्यक्षु । हेप्रत्यङ्हेप्रत्यञ्चौ हेप्रत्यञ्चः ॥२८७ नाञ्चेः पूजायाम ५५ ॥ पूजार्थस्याञ्चतेरुपधाभूतस्य नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । किन्प्रत्ययस्य कुः ( सू० २७९) संयोगान्तस्य लोपः । . ( सू० २३५)। प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । प्रत्यञ्चम् प्रत्यञ्चौ । नलोपाभावादकारस्यालोपः। प्रत्यञ्चः प्रत्यञ्चा प्रत्यङ्भ्याम् प्रत्यभिः। इत्यादि ॥ ङोः कुक् टुक् वा शरि ( सू० १०० ) प्रत्यक्षु प्रत्य क्षु ॥ एवं तिर्यचशब्दः । तिर्यङ् तिर्यञ्चौ तिर्यञ्चः । तिर्यञ्चम् तिर्यञ्चौ ॥ २८८ तिरश्चादयः ५६ ॥ तिरश्चादयः शब्दा निपात्यन्ते शसादौ खरे परे तद्धिते ईपि ईकारे च ॥ तिरश्वः । तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः । तिर्यक्षु । हेतिर्यङ् हेतिर्यञ्चौ हेतिर्यञ्चः ॥ २८९ विष्वग्देवयोश्च टेरयश्चतौ वप्रत्यये ५७ ॥ अनयोः सर्वनामश्च टेरद्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे ॥ अमुं अञ्चतीति विग्रहे ॥ अदसष्टेरद्यादेशः ॥ २९० अदसोऽसे दुदो मः ५८ ॥ अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः स्यात् । अदमुयङ् अमुयङ् अमुमुयङ् अदद्यङ् ॥ - परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ॥४२॥ विष्वद्या देवद्यङ् ॥ उदङ् उदञ्चौ उदञ्चः । उदञ्चम् उदञ्चौ ॥ २९१ उद ईत ५९ ॥ उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेरकारस्येकारादेशो भवति शसादौ खरे परे तद्धिते ईपि इकारे च । उदीचः। उदीचा उदग्भ्याम् उदग्भिः । उदक्षु । हेउदङ् हेउदञ्चौ हेउदञ्चः॥ - १ पाणिनीयमिदं सूत्रम् । -
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy