SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सू० २८३-२९१] हसान्ताः पुंलिङ्गाः ९ त्यस्मात् त्याभ्याम् त्येभ्यः । त्यस्य त्ययोः त्येषाम् । त्यस्मिन् त्ययोः त्येषु ॥ सः तौ ते । तम् तौ तान् । तेन ताभ्याम् तैः। तस्मै इत्यादि॥ यः यौ ये । यम् यौ यान् । येन याभ्याम् यैः । यस्मै । इत्यादि। एषः एतौ एते ॥ २८३ एतदोऽन्वादेशे द्वितीयाटौःखेनो वा वक्तव्यः॥उक्तस्य पुनर्भाषणमन्वादेशः। एतं-एनम् एतौ-एनौ एतान् एनान् । एतेन-एनेन एताभ्याम् एतैः । एतस्मै एताभ्याम् एतेभ्यः। । एतस्मात् एताभ्याम् एतेभ्यः । एतस्य एतयोः एनयोः एतेषाम् । एतस्मिन् एतयोः-एनयोः एतेषु ॥ एतेन व्याकरणमधीतमेनं छन्दोऽध्यापय ॥छकारान्तस्तत्त्वप्राशब्दः छशषराजादेः षः (सू० २७६) वावसाने (सू० २४०) तत्त्वप्राट्-तत्त्वप्राडू तत्त्वप्राछौ तत्त्वप्राछः । तत्त्वप्राछम् तत्त्वप्राछौ तत्त्वप्राछः । तत्त्वप्राछा । छशषराजादेः षः (सू० २७६ ) षोडः (सू० २४७) तत्त्वप्राइभ्याम् तत्त्वप्राइभिः । तत्त्वप्राछे तत्त्वप्राड्भ्याम् तत्त्वप्राड्भ्यः । तत्त्वप्राछः तत्त्वप्राड्भ्याम् तत्त्वप्राड्भ्यः । तत्त्वप्राछः तत्त्वप्राछोः तत्त्वप्राछाम् । तत्त्वप्राछि तत्त्वप्राछोः तत्त्वप्राट्सु ॥ थकारान्तोऽग्निमथ्शब्दः । वावसाने (सू० २४०) अग्निमत्-अग्निमद् अग्निमथौ अग्निमथः । अग्निमथम् अमिमथौ अग्निमथः । अग्निमथा अग्निमद्भयाम् अग्निमद्भिः । इत्यादि। हेअग्निमत्-हेअग्निमद् हेअग्निमथौ हेअग्निमथः ॥ चकारान्तः प्रत्यच्शब्दः ॥ २८४ अञ्चेः पञ्चसु नुमागमो वक्तव्यः ५२ ।। २८५ चोः कुः ५३ ॥ चवर्गस्य कवर्गादेशो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च यथासंख्येन ॥ स्तोः श्चुभिः श्चः (सू० ७७) संयोगान्तस्य लोपः ( सू० २३५ ) प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । प्रत्यञ्चम् प्रत्यञ्चौ ॥ २८६ अञ्चेर्दीर्घश्च ५४ ॥ अञ्चतेरकारस्य लोपो भवति पूर्वस्य च दीर्घः शसादौ खरे परे तद्धिते प्रत्यये ईपि इकारे
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy