SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः१ (सू० २४० ) ॥ २७८ मो राजि समः कौ ४६ ॥ विबन्ते राजतौ परे समो मस्य म एव स्यात् ॥ तेनानुखाराभावः । सम्राड् सम्राट् सम्राजौ सम्राजः । सम्राजम् सम्राजौ सम्राजः । सम्राजा सग्राड्भ्याम् सम्राभिः । इत्यादि ॥ सम्राट्सु । हेसम्राट्-हेसम्राड् हेसम्राजौ हेसम्राजः ॥ २७९ युजेरसमासे ४७ ॥ युजेः सुटि नुम् स्वादसमासे ॥ २८० किन्प्रत्ययस्य कु. ४८॥ क्विन्नन्तस्य धान्तोः कवर्गान्तादेशः स्यादसमासे झलि पदान्ते च । प्रत्ययशब्देन प्रत्ययान्तस्य ग्रहणम् । युङ् । अनुखारपरसवौँ । युञ्जौ युञ्जः । युञ्जम् युञ्जौ युजः । युजा युग्भ्याम् युग्भिः । युजे युग्भ्याम् युग्भ्यः । चोः कुः (सू० २८५ ) खसे चपा० ( सू० ८९) किलात् (सू०. १४१) कषसंयोगे क्षः ( सू० २४२) युक्षु । हेयुङ् हेयुञ्जौ हेयुञ्जः । इत्यादि । असमासे किम् । अश्वयुक् अश्वयुग् अश्वयुजौ अश्वयुजः । अश्वयुजम् अश्वयुजौ अश्वयुजः । अश्वयुजा अश्वयुग्भ्याम् अश्वयुग्भिः । इत्यादि ॥ समाध्यर्थस्य युजेन नुम् । युक् समाधिमानित्यर्थः ॥ दकारान्तो द्विपादशब्दः। द्विपात्-द्विपाद् द्विपादौ द्विपादः। द्विपादम् द्विपादौ ॥ २८१ पादः पत् ४९ ॥ पादूशब्दस्य पदादेशः स्याच्छदासौ खरे परे तद्धिते ईपि इकारे च ॥ द्विपदः। द्विपदा द्विपाभ्याम् द्विपाद्भिः ॥ द्विपदे द्विपाभ्याम् द्विपाभ्यः । इत्यादि॥ हेद्विपात् हेद्विपादू हेद्विपादौ हेद्विपादः ।। दकारान्तास्त्यदूतदयद्एतदूशब्दाः॥ त्यदू सि इति स्थिते ॥२८२ स्तः ५०॥ सू तः । त्यदादेस्तकारस्य सत्वं भवति सौ परे ॥ स्यः त्यौ त्ये । त्यम् त्यौ त्यान् । त्येन त्याभ्याम् त्यैः । त्यस्मै त्याभ्याम् त्येभ्यः । १ पाणिनीयानीतश्चत्वारि सूत्राणि प्रक्षिप्तान्यत्रेत्यनुमितिः प्राचीनतमपुस्तकेध्वदृष्टत्वात् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy