________________
सू०२७४-२८२] हसान्ताः पुंलिङ्गाः ९ अस्मात् आभ्याम् एभ्यः । उसूस्य ( सू० १३७ ) अस्य । अन टौसोः (सू० २७१) ओसि (सू० १३८) ए अय् (सू० ४१) अनयोः । सुडामः (सू० १५०) स्भ्यः (सू०२७२) एस्भि बहुत्वे (सू०१३५) किलात् (सू० १४१) एषाम् । ङि स्मिन् ( सू० १५१) अस्मिन् अनयोः एषु ॥ त्यदादीनां संबोधनाभावः ॥ २७४ इदमोऽप्यन्वादेशे द्वितीयाटौस्स्वेनादेशो वक्तव्यः ४२ ॥ उक्तस्य पुनर्भाषणमन्वादेशः ॥ एनं एनौ एनान् । एनेन एतयोः एनयोः ॥ प्रशाम्शब्दस्य भेदः ॥२७५ मोनो धातोः ४३ ॥ धातोर्मकारस्य नकारादेशो भवति रसे पदान्ते च । प्रशान् प्रशामौ प्रशामः । हेप्रशान् हेप्रशामौ हेप्रशामः । प्रशामम् प्रशामौ प्रशामः । प्रशामा प्रशान्भ्याम् प्रशान्भिः । इत्यादि । किंशब्दस्य भेदः । किंशब्दस्य त्यादेष्टेरः स्यादौ (सू०२७५) इति सर्वत्राकारे कृते सर्वशब्दवद्रूपं ज्ञेयम् ॥ कः कौ के । कम् को कान् । केन काभ्याम् कैः । कस्मै काभ्याम् केभ्यः । इत्यादि ॥ धकारान्तस्तत्त्वबुध् शब्दः । तस्य रसे पदान्ते च । आदिजबानां झभान्तस्य झभाः स्ध्वोः ( सू० २३९) हसे पः सेर्लोपः ( सू०१५६ ) वावसाने (सू० २४०) तत्त्वमुत्र तत्त्वभु तत्वबुधौ तत्त्वबुधः । तत्त्वबुधम् तत्त्वबुधौ तत्त्वबुधः । तत्त्वबुधा तत्त्वभुभ्याम् तत्त्वभुद्भिः । इत्यादि । हेतत्त्वभुत् हेतत्त्वभुद् हेतत्त्वबुधौ हेतत्त्वबुधः ॥ जकारान्तः सम्राजशब्दः ॥ २७६ छशपराजादेः षः ४४ ॥ छकारान्तस्य शकारान्तस्य षकारान्तस्य च राज्यस्रज्मृजभ्राजादेश्च षकारो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥ षस्य षत्वं डत्वनिषेधार्थम् । तेन आख्यातादौ तु डत्वं नास्ति द्वेष्टीत्यादि ॥ २७७ षो डः ४५ ॥ षः डः । षकारस्य डत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च । वावसाने