________________
सारस्वतव्याकरणम् ।
[वृत्तिः १
प्रिया-प्रियाष्टै प्रियाष्टाभ्यां प्रियाष्टभ्याम् प्रियाष्टाभ्यः - प्रियाष्टभ्यः । प्रियाष्ट्रः - प्रियाष्टाः प्रियाष्टाभ्यां - प्रियाष्टभ्याम् प्रियाष्टाभ्यः - प्रियाष्टभ्यः । प्रियाष्टुः-प्रियाष्टाः प्रियाष्ट्रोः प्रियाष्टौः प्रियाष्टां-प्रियाष्ट्राम् । प्रियाष्टि-प्रियाष्टनि प्रियाष्टे प्रियाष्ट्रोः - प्रियाष्टौ ः प्रियाष्टासुप्रियाष्टसु । हेप्रियाष्टन्- हे प्रियाष्टा हेप्रियाष्टानौ - हेप्रियाष्टौ हेप्रियाटान:- हेप्रियाष्टाः ||
५०
जसि त्रीण्येव रूपाणि शसि त्रीण्येव वै पुनः ।
ङावपि त्रीणि रूपाणि शेषे द्वे द्वे प्रियाष्टनः ॥ ४१ ॥ मकारान्त इदम् शब्दः || २६९ इदमोऽयं पुंसि ३७ ॥ इदमः अयम् पुंसि । इदमशब्दस्य पुंसि विषये अयमादेशो भवति सिस - हितस्य ॥ अयम् । द्विवचनादौ त्यादेष्टेः ( सू० १७५ ) इति सर्वत्राकारः । इद औ इति स्थिते ॥ २७० दस्य मः ३८ ॥ त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे ॥ ओ औ औ ( सू० ४६ ) इमौ । सर्वादित्वात् जसी ( १४५ ) इमे । त्यादीनां घेरभावः । इमम् इमौ इमान् ॥ २७१ अन टौसोः ३९ ॥ अन टौसोः । इदमोऽनादेशो भवति टौसोः परयोः कृत्स्नस्य ॥ टेन ( सू० १३० ) अनेन ॥ २७२ स्भ्यः ४० ॥ स्भि अः । इदमः सकारे भकारे च परे अकारादेशो भवति कृत्स्नस्य ॥ त्यदादित्वादत्वसिद्धौ पुनरत्वविधानं सर्वादेशार्थम् । तदाह कृत्स्नस्येति । अद्भि ( सू १३१ ) इत्यात्वम् । आभ्याम् || २७३ भिमस् ४१ ॥ इदमदसोर्भिस् भिसेव भवति ॥ तेन भकारस्य अत्वं न । एस्ि बहुत्वे (सू० १३५) एभिः । इदम् इति स्थिते त्यादेष्टेरः स्यादौ डे (सू० २७५) सर्वादेः स्मट् (सू० १४८) स्भ्यः (सू० १७२) अस्मै आभ्याम् एभ्यः । ङसिरत् ( सू० १३६ ) अतः ( सू० १४९ )