________________
सू० २९६- ३०१] हसान्ताः पुंलिङ्गाः ९
५७
षड् नाम् इति स्थिते ॥ २९६ ड्णः ६४ ॥ ड् णः । संख्यासंबन्धिनो डकारस्य णत्वं भवति नामि परे ॥ टुभिः टुः (सू० ७९ ) षण्णाम्। क्वचिदष्पदान्तेऽपि पदान्तताश्रयणीया । षष् सु इति स्थिते । षोड: ( सू० २७७ ) खसे चपा (सू० ८९) इतिटकारे कृते । षट्सु इत्यत्र । ष्टुभिः ष्टुः ( सू० ७९ ) इति सकारस्य षत्वे प्राप्ते पदान्तताश्रयणीया । टोरन्त्यात् ( सू० ८३ ) इति ष्टुत्वनिषेधः ॥ २९७ दोषाम् ६५ ॥ दोष्सजुष्आशिष्ह विष्प्रभृतीनां षकारस्य रेफो भवति रसे पदान्ते च ॥ हसे पः ( सू० १५६ ) स्रोर्विसर्गः ( सू० १२४ ) दो: दोषौ दोषः । दोषम् दोषौ । [ शसादावन्नन्तता वा वक्तव्या ] दोष्णः- दोषः । दोष्णा- दोषा दोर्भ्यां दोषभ्याम् दोर्भिः- दोषभिः । दोष्णे-दोषे दोर्भ्यां - दोषभ्याम् दोर्भ्यः दोषभ्यः । दोष्णः - दोषः दोर्भ्यां - दोषभ्याम् दोर्भ्यः - दोषभ्यः । दोष्णः - दोषः दोष्णोः दोषोः दोष्णाम्-दोषां । वेङयोः (सू० २२८ ) दोष्ण-दोषण दोषि दोष्णोः - दोषोः । दोषसु इति स्थिते । दोषाम् ( सू० २९७ ) इति विसर्गः । शषसे वा ( सू० १०५ ) इति सत्वे कृते । क्विलात् (सू० १४१ ) इति षत्वे रम् । नुम् विसर्ज - नीयशस्व्यवधानेऽपि किलादिति सस्य षत्वं वाच्यम् । कृताकृतप्रसङ्गीयो विधिः स नित्यः । दोष्षु - दोः षु-दोषसु । हेदो: हेदोषौ हेदोषः ॥ सप्तमीबहुवचने कृत्रिमत्वाद्विसर्गः ॥ एवं सजुष्ाब्दः ॥ २९८ सजुषाशिषो रसे पदान्ते च दीर्घो वक्तव्यः ६६ ॥ व्योविहसे ( सू० ३१५ ) इति सिद्धे इदं न वक्तव्यम् । अथवा तस्यैवेदं सूचकम् । दोषाम् । ( सू० २९७ ) सजूः सजुषौ सजुषः । सजुषम् सजुषौ सजुषः । सजुषा सजूर्भ्याम् सजूर्भिः । सजूषु-सजूः षु । इत्यादि । हेसजूः हेसजुषौ हेसजुषः ॥ सकारान्तः पुंस्शब्दः ।