________________
५८
सारस्वतव्याकरणम् ।
[ वृत्ति: १
पुंम् सि इति स्थिते ॥ २९९ पुंसोऽसुङ् ६७ ॥ पुंस्शब्दस्य असुङादेशो भवति पुंसि पञ्चसु परेषु शौ च ॥ ङकारोऽन्त्यादेशार्थः । उकारो नुम्विधानार्थः ॥
1
रेफः वरपरं वर्णं दृष्ट्वाssरोहति तच्छिरः । पुरः स्थितं यदा पश्येदधः संक्रमते खरम् ॥ ४३ ॥ अनुस्वारो नमस्यैव यावत्तद्देशयोगतः । मूर्ध्नि सङ्गं लभेत्तावन्नेक्षते पुरतः स्वरम् ॥ ४४ ॥ मः खरे ( सू० १०१ ) पुमस् सि इति स्थिते । त्रितो नुम् ( सू० २९२ ) सम्महतः ( सू० २९३ ) इति दीर्घः । संयोगान्तस्य लोपः ( सू० २३५ ) हसे पः सेर्लोपः ( सू० १५६ ) पुमान् पुमांसौ पुमांसः । पुमांसम् पुमांसौ पुंसः । पुंसा । पुंसि पुंसोः । पुंस सु इति स्थिते ।। ३०० असंभवे पुंसः कक्सौ ६८ ॥ असंभव इति कोऽर्थः । वेदान्तैकवेद्यस्य परमात्मनो बहुत्वासंभवे वाच्ये सति पुंस्शब्दस्य कगागमो भवति सुपि परे | ककारः कित्कार्यार्थः । अकार उच्चारणार्थः ॥ ३०९ स्कोराद्योश्च ६९ ॥ संयोगाद्योः सकारककारयोर्लोपो भवति धातोर्झसे परे नाम्नश्च रसे पदान्ते च ॥ किलात् ( सू० १४१ ) इति सस्य षत्वम् । कषसंयोगे क्षः ( सू० २४२ ) पुंक्षु ॥ ननु पुंक्ष्वित्यत्र मकार एव संयोगादिर्न सकारस्तर्हि कथं लोपः । पुंक्षु अत्र स्कोराद्योश्च ( सू० ३०१ ) इत्यनेन संयोगाद्यस्य लोपे प्राप्ते मकारस्यैव लोपो भवेन्न तु सकारस्य । आदित्वाभावात् । संयोगाद्यस्तु पुंस् इत्यत्र शिरसि मकार एव । तस्मादादित्वं द्विविधम् । मुख्यमापेक्षिकं च । अत्र सस्यादित्वमापेक्षिकम् । पुंस् क इत्यत्र ककारापेक्षया सकार आदिः संकारापेक्षया मकार खादिरिति सकारस्यैव लोपः । हेपुमन हे -