SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सू० ३०२ - ३०७] हसान्ताः पुंलिङ्गाः ९ ५९ मांसौ हेपुमांसः ॥ एवं विद्वस् शब्दः । विद्वान् विद्वांसौ विद्वांसः । विद्वांसम् विद्वांसौ ॥ ३०२ वसोर्व उः ७० ॥ वसोः संबन्धी चकार उत्वं प्राप्नोति शसादौ खरे परे तद्धिते ईपि ईकारे च ॥ विदुषः । विदुषा । वसां रसे ( सू० २३६ ) इति दत्वम् । विद्वयाम् विद्वद्भिः । विदुषे विद्वद्भ्याम् विद्वद्भ्यः । विद्वत्सु । हे विद्वन् । इत्यादि ॥ तद्धिते वैदुष्यम् । एवं तस्थिवस्प्रभृतयः । तस्थिवान् तस्थिवांसौ तस्थिवांसः । तस्थिवांसम् तस्थिवांसौ । निमित्ताभावे नैमित्तिकस्याप्यभावः । इटो वकारमुद्दिश्य प्राप्तत्वाद्वस्योत्वे तन्निवृत्तिः । आतोऽनपि (सू० ८०३ ) इत्यालोपः । तस्थुषः । तस्थुषा तस्थिवद्भ्याम् तस्थिवद्भिः । तस्थिवत्सु । इत्यादि । हेतस्थिवन् हेतस्थिवांसौ तस्थिवांसः ॥ सकारान्तः शुश्रुवसूशब्दः । शुश्रुवान् शुश्रुवांसौ शुश्रुवांसः । शुश्रुवांसम् शुश्रुवांसौ । शुश्रुवस् शस्र इति स्थिते । वसोर्व उः (सू० ३०२) वोर्धातोरियुवौ खरे ( सू० १८० ) खरहीनं परेण संयोज्यम् । ( सू० ३६ ) किलात् (सू० १४१ ) इति षत्वम् । शुश्रुवुषः । शुश्रुवुषा । वसां रसे ( सू० २३६ ) खसे चपा ( सू० ८९ ) शुश्रुवत्सु । हेशुश्रुवन् हेशुश्रुवांसौ शुश्रुवांसः ॥ एवं पेचिवान् पेचिवांसौ पेचिवांसः । पेचिवांसम् पेचिवांसौ । शसि वस्योत्वे कृते यदागमत्वादिड्लोपः । पेचुषः । पेचुषा पेचिवद्भ्याम् । इत्यादि || सकारान्तो जग्मिवस्शब्दः । जग्मिवान् जग्मिवांसौ जग्मिवांसः । जग्मिवांसम् जग्मिवांसौ । इटः ककारमुद्दिश्य प्राप्तत्वाद्वस्योत्वे कृते इटोऽपि निवृत्तिः । गमां खरे ( सू० ७८७ ) इत्यनेन उपधालोपः । जग्मुषः । जग्मुषा जग्मिवद्भ्याम् । जग्मिवत्सु । इत्यादि ॥ जगन्वान् जगन्वांसौ जगन्वांसः । जगवांसम् जगन्वांसौ । शसि वस्योत्वे कृते वकारनिमित्तस्य । मोनो धातोः 1 1 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy