SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः१ (सू०५२)इति नकारस्यापि मकारः। गमां खरे (सू०७८७) इति उपधालोपः । जग्मुषः । जग्मुषा जगन्वद्भ्याम् । इत्यादि । एवं जघन्वान् जघन्वांसौ जघन्वांसः । जघन्वांसम् जघन्वांसौ जनुषः । जघ्नुषा जघन्वभ्याम् । इत्यादि ॥ सकारान्तः सुवचस्शब्दः । अत्वसोः सौ ( सू० २९४ ) सुवचाः सुवचसौ सुवचसः । सुवचसम् सुवचसौ । इत्यादि ॥ हेसुवचः हेसुवचसौ हेसुवचसः ॥ एवं चन्द्रमस्प्रभृतयः । अत्वसोः सौ ( सू० २९४ ) हसेपः सेर्लोपः ( सू० १५६ ) चन्द्रमाः चन्द्रमसौ चन्द्रमसः । चन्द्रमसम् चन्द्रमसौ चन्द्रमसः । चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः । चन्द्रमस्सु-चन्द्रमःसु । हेचन्द्रमः हेचन्द्रमसौ हेचन्द्रमसः । इत्यादि । उशनस्शब्दस्य भेदः ॥ ३०३ उशनसाम् ७१ ॥ उशनस् पुरुदंसस् अनेहस् इत्येतेषां सेरधेर्डा भवति ॥ डित्वाहिलोपः । उशना उशनसौ उशनसः। उशनसम् उशनसौ उशनसः । उशनसा उशनोभ्याम् उशनोभिः । उशनस्सु-उशनःसु । इत्यादि ॥ उशनसो धौ नान्तताऽदन्तता वा वक्तव्या । हेउशनन्-हेउशन हेउशनः हेउशनसौ हेउशनसः ॥ उभयविकल्पे रूपत्रयम् । संबोधने तूशनसस्त्रिरूपमिति वचनात् ॥ पुरुदंसा पुरुदंससौ पुरुदंससः । इत्यादि ॥ अनेहा अनेहसौ अनेहसः । अनेहसम् । हेअनेहः । इत्यादि ॥ अदस्शब्दस्य भेदः । त्यादेष्टेः ( सू० १७५) इति सर्वत्राकारः । अद् सि इति स्थिते ।। ३०४ सौ सः ७२ ॥ अदसो दकारस्य सौ परे सत्वं भवति ॥ ३०५ सेरौ ७३ ॥ अदसः सेरौकारादेशो भवति ॥ असौ । द्विवचने अदस् औ इति स्थिते ॥ ३०६ दस्य मः ७४॥ त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे । ओ औ औ (सू० ४६) अमौ इति स्थिते ॥ ३०७ मा ७५ ॥ उश्च ऊश्च ऊ । अदसो
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy