________________
सू० ३०८-३१५] हसान्ताः पुंलिङ्गाः ९ मकारात्परस्य हूखस्य हूख उकारादेशो भवति दीर्घस्य च दीर्घ ऊकारादेशो भवति ॥ अमू । बहुवचने सर्वादित्वात् जसी (सू० १४५) दस्य मः ( सू० ३०६) अ इ ए (सू० ४३ ) अमे इति स्थिते ॥ ३०८ एरी बहुत्वे ७६ ॥ एः ई बहुत्वे । बहुत्वे सति मकारात्परस्य अदस एकारस्य ईकारादेशो भवति ॥ अमी । ईकारविधिसामर्थ्यान्न तूकारः । अमुम् अमू अमून् । मत्वोत्वे कृते । टानाऽस्त्रियाम् (सू० १६१) अमुना अमूभ्याम् अमीभिः । अदस् डे इति स्थिते । कारो ङित्कार्यार्थः । त्यादेष्टेरः स्यादौ (सू० १७५) दस्य मः ( सू० ३०६ ) सर्वादेः स्मटू ( सू० १४८) मादू ( सू० ३०७ ) अमुष्मै अमूभ्याम् अमीभ्यः । त्यादेष्टेरः स्यादौ ( सू० १७५) दस्य मः (सू० ३०५) सिरत् (सू० १३६ ) अतः (सू० १४९) सवर्णे दीर्घः ( सू० ५२) मादू (सू० ३०७ ) अमुष्मात् अमूभ्याम् अमीभ्यः । उस्स्य (सू० १३७) मादू (सू०३०७) किलात् ( सू०१४१) अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु ॥ ३०९ सामान्ये अदसः कः स्यादिवच्च ७७ ॥ सामान्येऽर्थे वाच्ये सति अदसूशब्दात्परः कः प्रत्ययो भवति कः स्यादिवज्ज्ञेयः ॥ एकस्योच्चारणेन बहों लभ्यते सत्सामान्यम् । त्यादेष्टेरः स्यादौ ( सू० २८७ ) दस्य मः ( सू० ३०६) मादू (सू० ३०७ ) अमुकः अमुको अमुके । अमुकम् अमुको अमुकान् । अमुकेन अमुकाभ्याम् अमुकैः । इत्यादि । शेष सर्वशब्दवद्रूपं ज्ञेयम् । चकारात्सात्परस्योत्वम् । तेन त्यादेष्टेः (सू० १७५) सौ सः (सू० ३४) मादू ( सू० ३०७) अमुकः। इत्यादि ॥ इत्यपि भवति ॥ इति हसान्तपुंलिङ्गप्रक्रिया ॥९॥