SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सू०७७४] भ्वादयः परस्मैपदिनः १ १३५ प्रर्वलोपौ वक्तव्यौ ९२ ॥ शसु हिंसायाम् । दद दाने । शशास शशसतुः । ददाद दददतुः । ववाज ववजतुः ववजुः । ववजिथ । अवाजीत् अवजीत् । व्रज गतौ । व्रजति । व्रजेत् । व्रजतु । अत्र. जत् । वव्राज वव्रजतुः वव्रजुः । व्रज्यात् । व्रजिता । ब्रजिष्यति । अब्रजिष्यत् ॥ ७७४ वन्दिवज्योः सौ नित्यं वृद्धिः ९३ ॥ अवाजीत् । अज गतौ क्षेपणे च । अजति । अजेत् । अजतु । आजत् ॥ ७७५ अजेरार्धधातुके वी वक्तव्यः वसादौ वा ९४ ॥ एतच्च विभक्तिचतुष्टयं सार्वधातुकं परमार्धधातुकसंज्ञं पाणिनीयानाम् । द्वित्वम् वृद्धिः । विवाय ॥ ७७६ नुधातोः ९५ ॥ विकरणस्य नोर्धातोश्चैव!वर्णयोरियुवौ भवतः खरे परे ॥ अनेकखरस्यासंयोगपूर्वस्य तु य्वौ ॥ विव्यतुः विव्युः ॥ ७७७ स्वरान्तानित्यानिटस्थपो वेट ९६ ॥ विवयिथ-विवेथ आजिथ विव्यथुः विव्य । विवाय-विवय विव्यिव-आजिव विव्यिम-आजिम । वीयात् ॥ ७७८ नैकखरादनुदात्तात् ९७ ॥ एकखराद्धातोर्धातुपाठेऽनुदात्त इत्येवं पठितादिडागमो न भवति ॥ ॥ अथानिट्कारिकाः ॥ . अनिट्स्वरान्तो भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः । अदन्तमृदन्तमृतां च वृबृजौ विडीङिवणेवथ शीश्रियावपि ॥ ४॥ गणस्थमृदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णुवः । इति स्वरान्ता निपुणैः समुच्चितास्ततो हसान्तानपि सन्निबोधत ॥५॥ शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेषु वसिः प्रसारणी । रभिश्च भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy