________________
१७२ सारस्वतव्याकरणम् । [वृत्तिः २ ९५४ ईर्वा हौ १३ ॥ जहातेही परे इकारः सिद्ध एव । पक्षे अकारेकारौ भवतः ॥ जहीहि-जहिहि-जहाहि । अजहात् । अजहीताम्-अजहिताम् अजहुः । जहाँ जहतुः जहुः । जहिथ-जहाथ । दादेरे ( सू० ८०७ ) हेयात् । हाता । हास्यति । अहास्यत् । अहासीत् । ऋ गतौ । ऋपोरिः पूर्वस्य ( सू० ९४७ ) ॥ ९५५ असवर्णे स्वरे पूर्वस्य इयादेशो भवति १४ ॥ इयर्ति इयतः इअति । इयूयात् । इयतु इयृतात् इय॒ताम् इयतु । इयहि-इय॒तात् इयतम् इय॒त । इयराणि इयराव इयराम । ऐयः-ऐयरत् ऐयताम् ऐयरुः । ऐयः-ऐयरः ऐवृतम् ऐयत । ऐयव ऐयुम । रः (सू० ११६) । वृद्धिः । आर आरतुः आरुः । गुणोतिसंयोगाद्योः (सू० ८१२) अर्यात् । अर्ता । अरिष्यति । अरिष्यत् । लदृशोः पुषादित्वात् ङप्रत्ययः । सेरपवादः । गुणः. ( सू० ६९२ ) आरत् ॥ ॥ इति जुहोत्यादिषु परस्मैपदिनः ॥ ७ ॥
जुहोत्यादिष्वात्मनेपदिनः ८ .. - ॥ अथात्मनेपदिनः ॥ ओहाङ् गतौ ॥ ९५६ भृमा लुकि १॥ डुभृञ् धारणपोषणयोः । ओहाङ् गतौ । माङ् माने इत्येतेषां पूर्वस्याकारस्य इकारो भवति लुकि सति ॥ द्वेस्तौ (सू० ९५१) जिहीते जिहाते जिहते । जिहीत । जिहीताम् । अजिहीत । जहे । हासीष्ट । हाता । हास्यते । अहास्यत । अहास्त अहासाताम् अहासत । माङ् माने । मिमीते मिमाते मिमते । मिमीत मिमीताम् । अमिमीत । ममे । मासीष्ट । माता । मास्यते । अमास्यत । अमास्त । ॥ इति जुहोत्यादिष्वात्मनेपदिनः ॥ ८ ॥