SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सू०९५७-९६३] जुहोत्यादिषुभयपदिनः ९ १७३ जुहोत्यादिषुभयपदिनः ९ अथोभयदिनः ॥ ॥ डुभृञ् धारणपोषणयोः । डुआवितौ । बिभर्ति बिभृतः बिभ्रति । बिभृते । बिभृयात् । बिभ्रीत । बिभर्तु बिभृताम् । अबिभः अबिभृताम् अभिभरुः । अबिभृत । बभार बभ्रतुः बभ्रुः । बभर्थ बभ्रे बिभराञ्चकार बिभरांचक्रे बिभरामास बिभरांबभूष । यादादौ । बिभ्रियात् भृषीष्ट । भर्ता २ । हनृतः स्यपः (सू० ७९० ) भरिष्यति-भरिष्यते । अभरिष्यत्-अभरिष्यत । अभार्षीत् । उः ( सू० ८६४ ) अभृत । डुदाञ् दाने । ददाति ॥ ९५७ दादेः १ ॥ द्विरुक्तस्य धातोराकारस्य लोपो भवति डिति परे ॥ दत्तः ददति । दत्ते ददाते ददते । दद्यात् ददीत । ददातु दत्ताद्वा दत्ताम् ददतु ॥ ९५८ दा हो २ ॥ दाधोराकारास्यैकारो भवति पूर्वस्य च लोपो भवति हौ परे ॥ देहि दत्ताम् । अददात् अदत्ताम् अददुः । अदत्त । ददौ । ददे । देयात् । दासीष्ट । दाता २ । दास्यति दास्यते । अदास्यत् अदास्यत । दादेः पे (सू० ७२५ ) अदात् अदाताम् अदुः ॥ ९५९ दाधास्थामित्वं सेर्डित्वम् ३ ॥ ठित्वान्न गुणः ॥ लोपो हखाज्झसे (सू० ८५२) अदित अदिषाताम् अदिषत । डुधाञ् धारणपोषणयोः । दधाति । दादेः (सू० ९५७) ॥९६० पूर्वस्य डिति झसे धः ४ ॥झभान्तस्य दधातेः पूर्वदकारस्य धकारो भवति ङिति झसे परे ॥ धत्तः दधति । धत्ते । दध्यात् दधीत । दधातु धेहि धत्ताम् । अदधात् अदधाः अधत्त । दधौ दधे । धेयात् धासीष्ट । धाता २ । धास्यति धास्यते । अधास्यत् अधास्यत । दादेः पे (सू० ७२५) अधात् । अधित । णिजिर शौचपोषणयोः ॥ इरित् । आदेः ष्णः स्वः (७४८) ॥ ९६१ निजां गुणः ५॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy