________________
सू०१३१६-१३२६] कस्वादिप्रक्रिया ३
२३७
स्म तत् सितम् । माङ् माने । मीयते स्म तत् मितम् ॥ १३१६ सेति निष्ठायां जेर्लोपो वाच्यः ४७ ॥ चोर्यते स्माऽसौ चोरितः । याच्यते स्माऽसौ याचितः ॥ क्तक्तवतू निष्ठासंज्ञौ ॥ इति निष्ठा - धिकारप्रक्रिया ॥ २ ॥
कखादिप्रक्रिया ३
अथ कखादिप्रक्रिया ॥ १३१७ कसुकानौ णबेवत् १ ॥ धातोः कसुकानौ प्रत्ययौ भवतः अतीते काले वाच्ये सति तौ च णबेवत् परस्मैपदात्मनेपदे भवतः ॥ णबादित्वाद्विर्वचनं न तु णपो णित्त्वा - दृद्धिरित्याशयः ॥ यथा चणपू परस्मैपदे तथा वसुः । यथा आत्मनेपदे ए तथा कानः । ककारो गुणप्रतिषेधार्थः । उकारो नुम्विधानार्थः । डुकृञ् करणे । चकार इति चक्रवान् । त्रितो नुम् (सू० २९२) हे चक्रुवन् । चकृवांसौ चकृवांसः । चकृवांसम् । चकृवांसौ । वसोर्व उः (सू० ३०२ ) चक्रुषः । चक्रुषा । वसां रसे (सू० २३६) चक्रवद्भ्याम् चक्रवद्भिः । इत्यादि । चक्रे इति चक्राणः । स्त्रीलिङ्गे चक्रुषी । नपुंसके चक्रुषः चक्रुषी चक्रुवांसि । भिदिर् विदारणे । बिभेद इति बिभिद्वान् बिभिद्वांसौ । बिभिद्वांसः । बिभिद्वांसम् । बिभिद्वांसौ । वसोर्व उः ( सू० ३०२ ) बिभिदुषः । बिभिदुषा । वसां रसे ( सू० २३६) बिभिद्वद्भ्याम् बिभिद्वद्भिः । इत्यादि । बिभिदे इति बिभिदानः । भो आमर्दने । बभञ्ज इति बभवान् । बभञ्जे इति बभञ्जानः । जागृ निद्राक्षये । जजागार इति जजागृवान्- जजागंर्वान् इत्यपि भवति ॥ १३१८ जागर्तेः किति गुणो वक्तव्यः २ ॥ तेन जजागरुषः ।। १३१९ कृतद्वित्वानामेकस्वराणामादन्तानां च घसेरेव कसोरिड्डाच्यो नान्येषाम् ३ ॥ बभूव इति बभू