SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३६ सारस्वतव्याकरणम् । [वृत्तिः ३ उतः । व्यञ् संवरणे । संवीयते स्माऽसौ संवीतः । हृञ् स्पर्धायां । हेञ् आह्वाने । हृञ् कौटिल्ये । संप्रसारणं दीर्घः । आहूयते स्माऽसौ आहूतः । वद व्यक्तायां वाचि । संप्रसारणम् । उद्यते स्माऽसौ उदितः । वच परिभाषणे । उच्यते स्माऽसौ उक्तः । वसिक्षुध्योरिट् ( सू० १२७५ ) वस् निवासे । उष्यते स्माऽसौ उषितः । घसादेः षः ( सू० ८३२) क्षुध बुभुक्षायाम् । क्षुध्यते स्माऽसौ क्षुधितः । जिष्वप् शये । सुप्यते स्माऽसौ सुप्तः। ओन छेदने ॥ १३०९ वेटो निष्ठायां इट् न ४० ॥ स्कोरायोश्च (सू० ३०१ संप्रसारणं । ल्वाद्योदितः (सू० १२९३) इति नत्वम् । णत्वम् चोः कुः (सू० २८५) प्रवृश्श्यते स्माऽसौ प्रवृक्णः ॥ १३१० जनेर्जा निष्ठायाम् ४१ ॥ जनेर्धातोर्जा आदेशो भवति निष्ठायां परतः ॥ जन जनने । जन्यते स्माऽसौ जातः ॥ १३११ खनेरात्वं निष्ठायाम् ४२॥ खन खनने । खन्यते स्माऽसौ खातः॥ १३१२ पचो वः ४३ ॥ पचेः परस्य क्तस्य वो भवति निष्ठायाम् ॥ पच्यते स्माऽसौ वा पाकक्रियया निवृत्तः पक्तः । पचति स्माऽसौ पक्कवान् ॥ १३१३ क्षायो मः ४४ ॥ क्षायः परस्य क्तस्य मो भवति निष्ठायाम् ॥ क्षै क्षये । सन्ध्यक्षराणामा (सू० ८०३) क्षायते स्माऽसौ क्षामः ॥ १३१४ शुषेः कः ४५॥ शुषेः परस्य क्तस्य को भवति निष्ठायाम् ॥ शुष् शोषणे । शुष्यते स्माऽसौ शुष्कः ॥ १३१५ स्फायः स्फीः ४६ ॥ स्फायः स्फीरादेशो भवति निष्ठायां परतः॥ ओस्फायी वृद्धौ । स्फायते स्माऽसौ स्फीतः । धेट् पाने । पीयते स्म तत् पीतम् । स्थामी (सू० १२४३) गै शब्दे । गीयते स्म तत् गीतम् । पा पाने । पियते स्म तत् पीतम् । दो अवखण्डने । दीयते स्म तत् दितम् । षोऽन्तकर्मणि । सीयते
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy