SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सू०१३०१-१३१५] निष्ठाधिकारप्रक्रिया २ २३५ घञ् । संस्क्रियते स्माऽसौ संस्कारः । अलंक्रियतेऽसौ अलंकारः। विद ज्ञाने । विद्यते स्माऽसौ विदितः ॥ १३०१ दो दत्ति ३२ ॥ दा इत्यस्य दद्भवति किदि तकि परे ॥ दीयते स्माऽसौ दत्तः । ददाति स्म इति दत्तवान् । बितो नुम् ( सू० २९२ ) ॥ १३०२ स्वरात्तो वा ३३ ॥ खरादुत्तरस्य दा इत्यस्य वा तो भवति किति तकि परे ॥ प्रकर्षेण दीयते स्माऽसौ प्रत्तः प्रदत्तः । अवदीयते स्माऽसौ अवदत्तःअवत्तः ॥ १३०३ नाम्यन्तोपसर्गस्य दीर्घो भवति ३४ ॥ १३०४ ददातेस्तो वाच्यः ३५ ॥ नितरां दीयते स तत् नीतं नीदत्तम् । पर्यासमन्ताद्भावेन दीयते स्म तत् परीतं परीदत्तम् ॥ १३०५ दधातेर्हिनिष्ठायां वाच्यः ३६ ॥ धीयते स्माऽसौ हितः । दधाति स्माऽसौ हितवान् ॥ १३०६ जहातेश्व किति ३७ ॥ जहातेर्धातोः किति प्रत्यये परे हिरादेशः स्यात् ॥ तेन पूर्व हित्वा हीयतेस्माऽसौ हितः । अहासीदिति हितवान् ॥ १३०७ ध्याख्यापृमूर्छिमदां क्तस्य नत्वाभावो वाच्यः ३८ ॥ ध्यै चिन्तायाम् । ध्यायते स्माऽसौ ध्यातः । ख्या प्रकथने । ख्यायते स्माऽसौ ख्यातः । पृ पालने । पूर्यते स्माऽसौ पूर्तः । पोरुर् ( सू० ९४८ ) । बोर्विहसे (सू० ३१६) मुर्छा मोहसमुच्छ्राययोः॥१३०८ राल्लोपश्छोः ३९ ॥ रेफादुत्तरयोश्छोरोपो भवति किति तकारे परे ॥ मूछचते स्माऽसौ मूर्तः । मदी हर्षे । मद्यते स्म इति मत्तः । यज देवपूजासंगतिकरणदानेषु । यजेः क्तः । षत्वम् । ष्टुत्वम् । संप्रसारणम् । इज्यते स्म तत् इष्टं-इष्टवान् । टुवप् बीजतन्तुसन्ताने । उप्यते स्म तत् उप्तम् । वह प्रापणे । हो ढः (सू० २४३)। तथोधः (सू० ७५३ ) ढि ढो लोपो दीर्घश्च ( सू० ८०२) उद्यते स्माऽसौ ऊढः भारः । ऊढोऽनडुहा पङ्गुः । वेञ् तन्तुसन्ताने । ऊयते स्माऽसौ
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy