SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३४ सारखतव्याकरणम् । [वृत्तिः ३ लीनः । व्रीङ् वरणे । बीयते स्माऽसौ वीणः । इत ओदितः । ओप्यायी वृद्धौ ॥ १२९५ प्यायः पी २६ ॥ प्यायः पी आदेशो भवति निष्ठायाम् ॥ प्यायते मासौ पीनः । क्षि क्षये ॥ १२९६ क्षियो निष्ठायां कर्तरि दी? वाच्यः २७ ॥ १२९७ दीर्घादेव क्षियो निष्ठायास्तस्य नो वाच्यः २८ ॥ क्षीयते स्माऽसौ क्षीणः । क्षीणवान् । भावकर्मणोस्तु क्षीयते स तत् क्षितं तेन । क्षितः कामो मया वा ॥ १२९८ यरलवसंयोगादेरादन्तानिष्ठातस्य नो वाच्यः २९॥ द्रा स्वप्ने । द्रायते स्माऽसौ द्राणः । ग्लै म्लै हर्षक्षये । ग्लायते स्मासौ ग्लानः । म्लानः। हि गतौ । हीयते स्माऽसौ हितः। त्रै पालने ॥ १२९९ त्राणाद्या वा ३०॥ त्राणादीनां नत्वं वा निपात्यते । त्रायते स्माऽसौ त्राणः-त्रातः । घा गन्धोपादाने । जिघ्रति स्माऽसौ घ्राणः-प्रातः । ही लज्जायाम् । हीयते स्माऽसौ हीण:-हीतः। नुद् प्रेरणे । नुद्यते स्माऽसौ नुन्नः-नुत्तः । विदिर विचारणे । विद्यते स्माऽसौ विन्नः-वित्तः ॥ वेत्ति रूपं विद ज्ञाने विन्ते विदिर विचारणे । विद्यते विद सत्तायां विद लाभे च विन्दति ॥ १०॥ उन्दी केदे । उद्यते स्मासौ उन्नः-उन्तः । वा गतिगन्धनयोः । निर्वाति स्म वा निर्वायते माऽसौ निर्वाणः-निर्वातः । विद सत्तायाम् । विद्यते स्माऽसौ विन्नः-वित्तः । एते त्राणाद्या ज्ञेयाः ॥ १३०० सं परि उप एभ्यः परस्य करोतेर्धातोर्भूषणेऽर्थे शोभनेऽर्थे च वाच्ये सति सुट् प्रत्ययो भवति ३१ ॥ टित्त्वादादौ । संस्क्रियते स्माऽसौ संस्कृतः । परिष्क्रियते स्माऽसौ परिष्कृतः । उपस्क्रियते स्माऽसौ उपस्कृतः । यदा संस्कृतिर्न तदा संक्रियते साऽसौ संकृतः। परिक्रियते साऽसौ परिकृतः । उपकृतः । भावे
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy