SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८८ सारस्वतव्याकरणम् । [वृत्तिः २ 1 1 1 म्रियते तद्वत् । पृड् व्यापारे । व्याप्रियते । व्यापरिष्यते । व्यापृत व्यापृषाताम् । ओविजी भयचलनयोः। विजते । विजेत । विजताम् । अविजत । विविजे । विजिता ॥ १०२० विजेः पर इट् किद्वक्तव्यः ३ ॥ ततो नोपधागुणः । विजिष्यते । अविजिष्यत । अविजिष्ट । ओलस्जी ब्रीडायाम् । अन्यत्र सो जः (सू० १००८ ) लज्जते । ललज्जे । अलज्जिष्ट || इति तुदादिष्वात्मनेपदिनः ॥ २२ ॥ इति अविकरणास्तुदादयः ॥ क्र्यादिषूभयपदिनः २३ 1 1 अथ ऋयादयः ॥ तत्रादावुभयपदिनः || डुक्रीम् द्रव्यविनिमये ॥ १०२१ ना क्र्यादेः १ ॥ त्र्यादेर्गणान्नाप्रत्ययो भवति चतुर्षु परेषु ॥ अपोऽपवादः ॥ णत्वम् । क्रीणाति ॥ ९०२२ ई हसे २ ॥ ना इत्यस्याकारस्य ईकारो भवति ङिति हसे परे ॥ क्रीणीतः १०२३ नातः ३ ॥ ना इत्यस्याकारस्य लोपो भवति ङिति खरे परे ॥ क्रीणन्ति । क्रीणासि कीणीथः क्रीणीथ । क्रीणामि क्रीणीवः 1 क्रीणीमः । क्रीणीते । क्रीणीयात् क्रीणीत । क्रीणातु क्रीणीताम् । अक्रीणात् अक्रीणीत | चिक्राय चिक्रियतुः चिक्रियुः । चिक्रयिथ चिक्रेथ । चिक्रिये । क्रीयात् षीष्ट क्रेता २ । क्रेष्यति यते । अक्रेष्यत् अक्रेष्यत । अक्रैषीत् अष्ट । प्रीञ् तर्पणे कान्तौ च । पिप्रिये । मीन् हिंसायाम् । मीनाति ॥ १०२४ मीनातिमिनो - तिदीङां गुणवृद्धिविषये क्यपि च आत्वं वाच्यम् ४ ॥ ममौ मिम्युतुः मिम्युः । ममिथ - ममाथ । मासीष्ट । माता । अमासीत्अमेष्ट || स्कुन् आप्रवणे || १०२५ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुभ्यो नुर्नाश्च ५ || स्कुनोति स्कुनाति । अस्कुनीत् । चुस्कु I
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy