________________
सू०१०१८-१०२५] तुदादिष्वात्मनेपदिनः २२
१८७
याम् । संप्रसारणम् । पृच्छति । पप्रच्छ पप्रच्छतुः । पप्रच्छिथ-पप्रष्ठ । पृच्छयात् । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । सृज विसर्गे । सृजति । ससर्ज ससृजतुः ससृजुः । ससर्जिथ-सस्रष्ठ । सृज्यात् । रारो झसे दृशाम् (सू० ७९६) स्रष्टा । स्रक्ष्यति । अस्राक्षीत् । टुमस्जो शुद्धौ । टुओ इतौ । अन्यत्र सो जः (सू० १००८) मजति । ममज । मला । मस्जिनशोझसे नुम् (सू० ९६९) मक्ष्यति अमाङ्क्षीत् अमाताम् अमाक्षुः । विश् प्रवेशने । वेष्टा । अविक्षत् । मृष् आमर्शने । अम्राक्षीत् अमाीत् अमृक्षत् । विच्छ गतौ। आयः (सू० ७८१) विच्छायति । विच्छायाञ्चकार-विविच्छ । विच्छाय्यात्-विच्छयात् । विच्छायिता-विच्छिता। अविच्छायीत्। इषु इच्छायाम् । गमां छः ( सू० ७८७ ) इच्छति इच्छेत् । इयेष । एषिता । एष्टा । छुप स्पर्शे । छोप्ता अछौप्सीत् ॥ लिश गतौ । लेष्टा । अलिक्षत् । खिद परिघाते । खिन्दति खेत्ता । अखैत्सीत् ॥ पिश अवयवे । पिंशति । पेशिता ।। इति तुदादिषु परस्मैपदिनः ॥ २१ ॥
. तुदादिष्वात्मनेपदिन: २२ ॥ अथात्मनेपदिनः ॥ मृङ् प्राणत्यागे ॥ १०१८ अयकि १॥ ऋकारस्य रिङादेशो भवति अकारे प्रत्यये यकि च परे ॥नु धातोः (सू० ७७६) म्रियते ॥ १०१९ सपरोक्षयोस्तादौ म्रियतेः परसैपदं वाच्यम् २ ॥ ममार मम्रतुः । मृषीष्ट । मर्ता । मरिष्यति । अमरिष्यत् । लोपो हखाज्झसे (सू० ८५२)। अमृत अमृषाताम् अमृषत ॥ दृङ् आदरे । द्रियते । दद्रे । दृषीष्ट दर्ता । हनृतः स्यपः (सू० ७९०) दरिष्यते । अदरिष्यत । अदृत । धृङ् अवस्थाने ।