________________
१८६ - सारस्वतव्याकरणम् । [वृत्तिः २ सिञ्चति सिषेच । सिच्यात् । सिक्षीष्ट । सेक्ता २। सेक्ष्यति । असिचत् असिचत असिक्त ॥ इति तुदादिषूभयपदिनः ॥ २० ॥
तुदादिषु परस्मैपदिनः २१ अथ परस्मैपदिनः ॥ कृती छेदने । कृन्तति । चकर्त । कृत्यात्। कर्तिता । कतिष्यति । अकर्तिष्यत् । अकर्तीत् ॥ लुभ विमोहने । लोभिता लोब्धा । अलोभीत् ॥ चूती हिंसाग्रन्थनयोः । चर्तिष्यति चय॑ति । अचर्तीत् ॥ विध विधाने । वेधिता ॥ कुट कौटिल्ये ॥ १०१३ कुटादेणिद्वर्जः प्रत्ययो डिद्वत् १॥ चुकोट चुकुटिथ । कुटिता । अकुटीत् ॥ त्रुट छेदने। त्रुट्यति त्रुटति। ओवश्यू छेदने । ओऊ इतौ । ग्रहां किति च (सू० ८७३) वृश्चति । वव्रश्च ववृश्चतुः ववृश्चः । वव्रश्चिथ-वज्रष्ठ वृश्च्यात् । ऊदितो वा (सू० ७५१) वृश्चिता व्रष्टा । स्कोरायोश्च (सू० ३०१) व्रश्चिष्यति ब्रक्ष्यति । अब्रवीत् अवाक्षीत् अब्राष्टाम् । कृ विक्षेपे । ऋत इर (सू. ८२०) किरति । चकार चकरतुः। कीर्यात् । करिता । ईटो ग्रहाम् (सू० ८२१) करीता । करीष्यति-करिष्यति। अकरीष्यत्-अकरिष्यत। अकारीत् ॥ १०१४ उपाकिरतेश्छेदेऽर्थे सुवाच्यः ॥ १०१५॥ हिंसायां प्रतेश्च ३ ॥ उपस्किरति उपचस्कार । प्रतिस्किरति ॥ गृ निगरणे । गिरति ॥ १०१६ ॥ गिरते रस्य वा लः स्वरे वाच्यः ४ ॥ गिलति । जगार-जगाल जगरतुः जगलतुः जगरुः-जगलुः । अगारीत् अगालीत् । स्पृश स्पर्शने । स्पृशति । पस्पर्श । स्पृश्यात् । स्प्रष्टा स्पष्टी । स्प्रक्ष्यति स्पर्ध्यति । अस्पक्ष्यत्-अस्पीत् । अस्पाक्षीत् । रो वा । अस्पाक्षीत् ॥ १०१७ कृषादीनां वा सिर्वक्तव्यः ५ ॥ तत्पक्षे । हशषान्तात्सक (सू० ८००) अस्पृक्षत् । प्रच्छ ज्ञीप्सा