________________
सू० १००८-१०१७] तुदादिषूभयपदिनः २०
१८५
तुदते । तुदेत् । तुदेत । तुदतु तुदताम् । अतुदत् अतुदत । तुतोद तुतुदे । तुद्यात् । तुत्सीष्ट । तोता तोत्स्यति तोत्स्यते । अतोत्स्यत् अतौत्सीत् अतौत्ताम् अतौत्सुः । अतुत्त अतुत्साताम् अतुत्सत ॥ भ्रस्जो पाके । ओ इत् ॥ १००८ अन्यत्र सो जः २ ॥ झस्परत्वाभावे सस्य जो भवति ॥ ग्रहां क्ङिति च ( सू० ८७३ ) १००९ अप्रत्ययो ङिद्वत् ३ ॥ भृज्जति भृज्जते । बभ्रज्ज । ऋसंयोगात् (सू० ७४३ ) इति कित्त्वाभावान्न संप्रसारणम् । बभ्रुज्जतुः बभ्रज्जुः । बभ्रुज्जिथ बभ्रष्ठ बजे ॥ १०१० भ्रज्जतेः सकाररेफौ लस्वा रमागमोनपि वा वाच्यः ४ ॥ बभर्ज बभर्जे । भृज्यात् भर्ज्यात् । भ्रक्षीष्ट-भक्षष्ट । भ्रष्टा-भष्ट । भ्रक्ष्यति भर्क्ष्यति । अत्रक्ष्यत् - अभर्क्ष्यत् । अभ्राक्षीत् अभार्क्षीत् । अभ्रष्ट - अभष्ट ॥ दिश अतिसर्जने । दिक्षीष्ट । अदिक्षत् अदिक्षत । क्षिप प्रेरणे । क्षिप्सीष्ट । अक्षिप्त । कृष् विलेखने। कृक्षीष्ट ऋष्टा - कष्ट । अकाक्षत् अक्राक्षीत् । अक्षत अकृष्ट अकृक्षाताम् अक्षत ॥ मिल संगमने । मिमिले । अमेलिष्ट । मुल मोक्षणे ॥ १०११ मुचादेर्मुम् 1 ४ ॥ मुचादीनां मुमागमो भवति अप्रत्यये परे ॥ मुञ्चति मुञ्चते । मुमोच मुमुचे । मुच्यात् । सिस्योः ( सू० ८५८) अनेन गुणा - भावः । चोः कुः ( सू० २८५) मुक्षीष्ट । मोक्ता २ । मोक्ष्यति मोक्ष्यते । अमोक्ष्यत् अमोक्ष्यत । अमुचत्-अमुक्त | लुप्प छेदने । लुम्पति । लुप्सीष्ट । अलुपत् । विद्व लाभे । विन्दति । अवेदिष्ट । अनिडयमित्येके । वेत्ता । लिप् उपदेहे । 'मुच् लुप् विद् लिप् सिच् कृत् पिश् खिद् एते मुचादयः || लिम्पति । लिलेप । अलिपत् अलिपत ॥ १०१२ लिपिसिचिह्नयतीनामात्मनेपदे से वा वाच्यः ६ ॥ अतिप्त । षिच्ल क्षरणे ।
I