SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याक [वृत्तिः १ प्राङ्गुष्ठः प्राक्षष्ठः । सुगणू षष्ठः सुगणूषष्ठः सुगषष्ठः ॥ १०१ मः खरे ३० ॥ अनुस्वारस्य मकारो भवति खरे परे । किं अस्ति किमस्ति ॥ १०२१छन्दसि ३१ ॥ अनुखारश्छन्दसिरकारमापद्यते शषसहरेफेषु परतः । चतुस्त्रिशद्वाजिनः। सामयजू ५. पि ॥ वयः सोमः । सि५ ह्यसि । देवाना राजा ॥ १०३ तकारो लचटवर्गेषु पररूपमापद्यते ३२॥ विठलः विट्ठलः ॥ इति व्यञ्जनसंधिप्रक्रिया ॥ ४ ॥ विसर्गसंधिः ५ अथ विसर्गसंधिनिंगद्यते ॥१०४ विसर्जनीयस्य सः ॥ विसजनीयस्य सकारो भवति खसे परे । कः तनोति कस्तनोति ।। १०५ शपसे वा २ ॥ विसर्जनीयस्य वा सकारो भवति शषसे परे । कः शेते कश्शेते । कः षण्ढः कष्षण्ढः । कः साधुः कस्साधुः ।। १०६कुप्वोः कx पौवा ३॥ विसर्जनीयस्य कवर्गपवर्गसंबन्धिनि खसे परे ४ क x पौ वा भवतः। कपावुच्चारणार्थौ । कः करोति क करोति । कः खनति क खनति । कः पचति क ४ पचति । कः पठति क ४ पठति । कः फलति क x फलति ॥ १०७ वाचस्पत्यादयः संज्ञाशब्दा निपातात्साधवः ४ ॥ वाचस्पतिः बृहस्पतिः कारस्करः पारस्करः भास्करःतस्करः हरिश्चन्द्रः। तद्बहतोः करपत्योश्चोरदेवतयोः सुटू तलोपश्च । इत्यादि ॥१०८ अह्रो रोऽरात्रिषु ५॥ अहो विसर्जनीयस्य पदान्ते रो भवति रात्र्यादिवर्जितेषु परतः । अहः पतिः अहर्पतिः । अहः गणः अहर्गणः । अहः अत्र अहरत्र । अरात्रिष्विति विशेषणादहोरात्रम् । अहः रूपं अहोरूपम् । अहः रथन्तरं अहोरथन्तरम् । रूपरात्रिरथन्तरेषु
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy