SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२४ सारस्वत व्याकरणम् । [ वृत्ति: ३ 1 साहः । वह प्रापणे । भारं वहतीति भारवट्-भारवाड् भारवाहौ भारवाहः । भारवाहम् भारवाहौ । वाहो वौ ( सू० २४५ ) भारोहः । भारौहा भारवाड्भ्याम् भारवाङ्भिः । इत्यादि || १२३४ पृच्छतेर्वि ४८ ॥ तत्त्वं पृच्छतीति तत्त्वप्राट् । अम्बूनि वहतीति अम्बुचाट् । शसादौ तु अम्बूहः ॥ १२३५ अन उ: ४९ ॥ अनकारादुचरस्य वाहो वाकारस्य उः स्यात् शसादौ खरे परे ॥ शालिवाट् शाल्यूहः ॥ १२३६ शमेरपि विश् वक्तव्यः ५० ॥ मो नो धातोः (सू० २७५ ) शम दम उपशमने । प्रकर्षेण शाम्यतीति प्रशान् प्रशामौ प्रशामः ॥ १२३७ अभूततद्भावे कृभ्वस्तियोगे नानश्विः ५१ ॥ अभूततद्भावेऽर्थे भू अस् इत्येतेषु नान्नविः प्रत्ययो भवति ॥ १२३८ संपद्यकर्तरीति वक्तव्यम् ५२ ।। तेन अगृहे गृहे भवतीति गृहेभवति । चकार वा दीर्घ इति विशेषणार्थः । अथवा चकारः प्रत्ययभेदज्ञापनार्थः । वेः ( सू० १२३३ ) || १२३९ च्वौ दीर्घ ई चास्य ५३ ॥ च्वौ प्रत्यये परे आकारस्य ईकारादेशो भवति अन्यस्य खरस्य दीर्घो भवत्यव्ययवर्जितस्य ॥ अमिथुनं मिथुनं संपद्यमानं तथा करणं इति मिथुनीकरणं । पाणिग्रहणम् । च्व्यन्तत्वादव्ययम् । अव्ययाद्विभक्तेर्लुक् ( सू० ३५९ ) असहायः सहाय: संपद्यमानस्तथा स्यात् इति सहायीस्यात् । अकृष्णः कृष्णः यथा संपद्यमानस्तथा करोतीति कृष्णीकरोति । हेतूकृतम् । अव्ययस्य न दीर्घत्वम् । अखस्ति स्वस्ति यथा संपद्यमानस्तथा स्यादिति स्वस्ति स्यात् । संपद्य - कर्तीरे किम् । अगृहे गृहे भवतीति गृहेभवति । अलुक् क्वचित् ( सू० ५४९ ) इति विभक्तेरलुक् ॥ १२४० च्चौ सलोपश्च ५४ ॥ मनस् महस् रजस् इत्यादीनां सकारस्य लोपो भवति च्वौ प्रत्यये परे ॥ द्वौ नञौ प्रकृतमर्थमनुसरतः । उत्सुकं मनो 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy