SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२५ सू० १२४१-१२५२] कृदन्तप्रकरणम् १ यस्यासौ उन्मनाः, न उन्मनाः अनुन्मनाः, अनुन्मनाः उन्मनाः संपद्यमानस्तथा भाव इति उन्मनीभावः । विगतं मनो यस्याऽसौ विमनाः, न विमनाः अविमनाः, अविमना विमनाः संपद्यमानः तथा भाव इति विमनीभावः । न विद्यते मनो यस्यासौ अमनाः, न अमनाः अनमनाः, अनमनाः अमनाः संपद्यमानस्तथा भाव इति अमनीभावः । तथा सुमनीभावः । सुचेतीभावः । महीकरोति । अरूकरोति । चक्षूकरोति ॥ १२४१ डाच् कचिद्वक्तव्यः ५५॥ अभूततद्भावेऽर्थे कचित् डाच् प्रत्ययो भवति ॥ अदुःखं दुःखं संपद्यते तत् करोतीति दुःखाकरोति । तथा भद्राकरोति ॥ १२४२ आतो मनिपकनिब्वनिप: ५६ ॥ प्रादौ नाम्नि च प्रयुज्यमाने आकारान्ताद्धातोर्मनिप् कनिप् वनिप् इत्येते प्रत्यया भवन्ति ॥ सुष्ठु ददातीति सुदामा । राजन्शब्दवद्रूपम् । खसे चपा झसानाम् ( सू० ८९) अश्वे तिष्ठतीति अश्वत्थामा ॥१२४३ स्थामी ५७ ॥ इश्च ईश्व ई दासोमास्तां हख इकारो भवति । दा सोमा स्थां ह्रख इकारो भवति धागैहाकपिबतीनां दीर्घ ईकारो भवति तकारादौ किति हसे परे, न क्यपि विपि वा कनिप्प्रत्ययः। सुष्ठु पिबतीति सुपीवा । भूरि ददातीति भूरिदिवा। घृतं पिबतीति घृतपीवा । धनदिवा । मलसिवा। मार्गस्थिवा। धनधीवा । सुगीवा । दोषहीवा ।। १२४४ कनिए कचिदन्येभ्योऽपि दृश्यते ५८ ॥ सुष्टु करोतीति सुकर्मा । सुष्टु शृणोतीति सुशर्मा । अन प्राणने। अत्र विप् । प्राणितीति प्राण प्राणौ प्राणः। हे प्राण ॥१२४५ अनः ५९ ॥ पदान्ते वर्तमानस्यापि अनो नस्य णत्वं स्यात् । अधौ इति विशेषणान्नलोपो न शङ्कनीयः ॥ १२४६ ह्रस्वस्य पिति कृति तुक ६० ॥ हखस्य पिति कृति परे तुगागमो भवति ॥ इण् गतौ । प्रातरेतीति प्रातरित्वा ॥१२४७ वनिपि अमस्याऽत्वं वाच्यम् ६१॥ १५
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy