________________
१४०
सारस्वतव्याकरणम् ।
[वृत्तिः २
1
क्षन् । रुष् हिंसायाम् । उपधाया लघोः ( सू० ७३५ ) रोषति । रोषेत् । रोषतु । अरोषत् । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ । रुष्यात् रोषिता रोष्टा । रोषिष्यति । अरोषिष्यत् । अरोषीत् । उष् दाहे । ओषति । ओषेत् । ओषतु । औषत् ॥ ८०१ उपविजागृणामाम्वा वक्तव्यः १२० ॥ उषांचकार- उवोष उवोषिथ । उष्यात् । उषिता । • उषिष्यति औषिष्यत् । औषीत् । मिह सेचने । मेहति । मेहेत् ।
1
तु | अमेत् । मिमेह मिमिह्तुः मिमिहुः । मिमेहिथ । मियात् । हो ढः (सू० २४३ ॥ ) तथोर्धः (सू०७५३) टुत्वम् ॥ ८०२ ढि ढोलो लोपो दीर्घव १२१ ॥ ढकारस्य ढकारे परे लोपो भवति पूर्वस्य च दीर्घः ॥ मेढा । मेक्ष्यति । अमेक्ष्यत् । हशषान्तात्सक् ( सू० ८०० ) हो ढः ( सू० २४३ ) षढोः कः से ( सू० ७९८) । अमिक्षत् अमिक्षताम् अमिक्षन् । दह भस्मीकरणे | दहति । दहेत् । दहतु । अदहत् । ददाह देहतुः देहुः । देहिथददग्ध । दह्यात् । दग्धा । दादेर्घः ( सू० २३८ ) आदिजवानां झान्तस्य झभाः स्ध्वोः ( सू० २३९ ) । खसे चपाः ( सू० ८९ ) क्विलात्षः सः कृतस्य ( सू० १४१ ) । कषसंयोगे क्षः ( सू०२४२ ) धक्ष्यति । अध्यक्ष्यत् । अधाक्षीत् । झसात् (सू० ७५६ ) अदाग्धाम् अधाक्षुः । ग्लैग्लै हर्षक्षये । आयादेशः । ग्लायति । ग्लायेत् । ग्लायतु । अग्लायत् ॥ ८०३ सन्ध्यक्षराणामा १२२ ॥ सन्ध्यक्षराणां धातूनामात्वं भवति अनपि विषये ॥ णप् । द्विश्व ( सू० ७१०) हखः ( सू० ७१३ ) । पूर्वस्य हसादिः शेषः ( सू० ७३९ ) । कुहोश्धुः ( सू० ७४६ ) ॥ ८०४ आतो णपू डौ १२३ ॥ आकारान्ताद्धातोः परो णपू डौ भवति ॥ टिलोपः । जग्लौ ॥ ८०५ आतोऽनपि १२४ ॥ धातोराकारस्य लोपो भवति