SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सू० ८०६ - ८१४] भ्वादयः परस्मैपदिनः १ १४१ अनपि किति ङिति खरे सेटि थपि च || जग्लतुः जग्लुः । जग्लिथजग्लाथ जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम ॥ ८०६ संयोगादेरादन्तस्य किति यादादावेकारो वा वक्तव्यः १२५ ॥ ग्लायात् ग्लेयात् । ग्लाता । ग्लास्यति । अग्लास्यत् । अग्लासीत् अग्लासिष्टाम् अग्लासिषुः । गैरे कै शब्दे । गायति । गायेत् । गायतु । अगायत् । जगौ जगतुः जगुः || ८०७ दादेरे १२६ ॥ अपित्दाधामागैहापिबसोस्थानामाकारस्यैकारो भवति आशीर्वादादौ परस्मैपदे परे ॥ गेयात् । गाता । गास्यति । अगास्यत् अगासीत् अगासिष्टाम् अगासिषुः । ष्यै शब्दसंघातयोः । सत्वनिषेधः । यायति । ट्यायेत् । ट्यायतु । अष्ट्यात् । सन्ध्यक्षराणामा ( सू० ८०३ ) शसात्खपा : ( सू० ७४१) 'षाट्टवर्गस्तवर्गज:' इति षकारे गते तकार एव । तष्ट्यौ । ष्ट्यायात् ष्यात् । ष्ट्याता । ष्टयास्यति । अष्ट्यास्यत् । अष्ट्यासीत् । दैप् शोधने । दायति । दायेत् । दायतु | अदायत् । ददौ । पित्त्वादेकाराभावः । दायात् । दाता । दास्यति । अदास्यत । अदासीत् अदासिष्टाम् अदासिषुः । पित्त्वा - त्सिलोपाभावः इत्यादि । धेट् पाने । ट ईबर्थः । धयति । धयेत् । घयतु । अधयत् । दधौ । धेयात् । धाता । धास्यति । अधास्यत् । वा सिलोपः । अधासीत् अधासिष्टाम् अधासिषुः । अधात् अधाताम् । स्याविदः ( सू० ७३८ ) ॥ ८०८ उस्थालोपः १२७ ॥ उसि परे धातोराकारस्य लोपो भवति ॥ अधुः । धेटः सेरङ् । घातोर्द्वित्वं वेति केचित् ॥ ८०९ आतोऽनपि १२८ ॥ धातोराकारस्य लोपो भवति अनपि किति ङिति खरे सेटि थपि च ॥ अदधत् अदधताम् अदधन् । दृशिर् प्रेक्षणे ॥ ८१० दृशादेः पश्यादिः १२९ ॥ दृशादेर्धातोः पश्यादिरादेशो भवति चतुर्षु
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy