________________
१४२
सारस्वतव्याकरणम् ।
[वृत्तिः २
1
परेषु ॥ 'दृश् ऋ भृ शद सद पात्रा मा स्थाना दाण' एते दृशादयः । ' पश्य ऋच्छ धौ शीय सीद पिब जिघ्र धम तिष्ठ मन यच्छ' एते पश्यादयः । पश्यति । पश्येत् । पश्यतु । अपश्यत् । ददर्श ददृशतुः ददृशुः । सृजिदृशोस्थपो वेटू । ददर्शिथ । गुणः ( सू०६९२ ) रारो झसे दृशाम् (सू०७९६ ) षत्वम् । ष्टुत्वम् । दष्ट दशथुः ददृश । ददर्श ददृशिव ददृशिम दृश्यात् । द्रष्टा । दृक्ष्यति । अद्रक्ष्यत् । अत उपधायाः ( सू०७५७ ) अद्राक्षीत् । झसात् (सू०७५६ ) टुत्वम् । अद्राष्टाम् अद्राक्षुः । पक्षे । इरितो वा ( सू० ७४० ) दृशादेर्डे गुणः | अदर्शत् अदर्शताम् अदर्शन् । रु गतौ । ऋच्छादेशः । ऋच्छति ऋच्छेत् । ऋच्छतु । आच्छेत् । रः (सू०७६८) पश्चात् । ऋ अ ( सू०५६ ) वृद्धिः । आर आरतुः आरुः ॥ ८११ अत्यर्तिव्ययतीनां थपो नित्यमिद् १३० || आरिथ आरथुः आर । आर आरिव आरिम ॥ ८१२ गुणोर्तिसंयोगाद्योः १३१ ॥ अर्तेः संयोगादेरृदन्तस्य च गुणो भवति यकि यङि किति णादावाशीर्यादादौ च ॥ अर्यात् । अर्ता । हनृतः स्यपः (सू० ७९० ) अरिष्यति । आरिष्यत् ॥ ८१३ सर्तिशास्त्यर्तिभ्यो ङो लुङि १३२ ॥ सेरपवादः । लित्पुषादेर्ड: ( सू० ७९१ ) आरत् आरताम् आरन् । अर्तेर्वा ङः । सेरपवादो लुङिति केचित् । आर्षीत् । सृ गतौ । धावादेशः । धावति । शीघ्रगतावेव धावादेशः । सरति । ससार सस्रतुः । संस्रुः । क्रादित्वात् ससर्थ संस्रथुः सस्र । ससार- ससर ससृव ससृम ॥ ८१४ यादादौ १३३ ॥ ऋकारस्य रिङादेशो भवति यादादौ परस्मैपदे परे ॥ ङकारो व्यवधानार्थः । तेन ये ( सू०७७९ ) इति न दीर्घः । त्रियात् । सर्ता । सरिष्यति । असरिष्यत् । पुषादित्वात्
1