SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सू०८१५-८२३] भ्वादयः परस्मैपदिनः १ १४३ ङः । असरत् असरताम् असरन् । शद्ल शातने ॥ ८१५ शीयादेशे आत्मनेपदं वाच्यम् १३४ ॥ शीयते । शीयेत् । शीयताम् । अशीयत । शशाद । लोपः पचाम् (सू० ७६२) शेदतुः शेदुः। शेदिथ-शशत्थ । शद्यात् । शत्ता । शत्स्यति । अशत्स्यत् । लदित्त्वात् ङः । अशदत् । षदूल विशरणगत्यवसादनेषु । सत्वम् । सीदादेशः । सीदति । ससाद सेदतुः सेदुः । सेदिथ-ससत्थ । सद्यात् । सत्ता । सत्स्यति । असत्स्यत् । असदत् । निपूर्वः । न्यषदत् । पा पाने। पिबादेशः । पिबति । पिबेत् । पिबतु । अपिबत् । पपौ पपतुः पपुः । पपिथ-पपाथ । दादेरे (सू० ८०७) पेयात् । पाता । पास्यति । अपास्यत् । दादेः पे (सू० ७२५) अपात् । घ्रा गन्धोपादाने । जिघ्रादेशः । जिघ्रति । जिप्रेत् । जिघ्रतु । अजिप्रत् । जघौ जघ्रतुः जघुः । जघ्रिथ-जघ्राथ । प्रायात्-घेयात् । घाता। प्रास्यति । अघ्रास्यत् । अघ्रासीत् । अघ्रात् । ध्मा शब्दामिसंयोगयोः । धमादेशः । धमति । धमेत् । धमतु । अधमत् । दध्मौ । ध्मायात्-ध्मेयात् । ध्माता । ध्मास्यति । अध्मास्यत् । अध्मासीत् । ष्ठा गतिनिवृत्तौ । आदेः प्णः स्वः (सू० ७४८) सकारे जाते निमित्ताभावेन ठस्य थः । तिष्ठादेशः । तिष्ठति । तिष्ठेत् । तिष्ठतु । अतिष्ठत् । शसात्खपाः (सू० ७४१) तस्थौ तस्थतुः तस्थुः । स्थेयात्-स्थायात् । स्थाता । स्थास्यति । अस्थास्यत्। निपूर्वः । षत्वम् । न्यष्ठात् । म्ना अभ्यासे । मनादेशः । मनति । मनेत् । मनतु । अमनत् । मन्नौ मन्नतुः मनुः । मन्निथ-मनाथ । म्नायात् नेयात् । नाता नास्यति अम्नस्यात् । अम्नासीत् । दाण दाने । यच्छादेशः । यच्छति । यच्छेत् । यच्छतु । अयच्छत् । ददौ ददतुः ददुः । दादेरे (सू० ८०७) देयात् । दाता।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy