________________
सू०७९३-८०५] भ्वादयः परस्मैपदिनः १ फलेत् । फलतु । अफलत् । पफाल ॥ आदेशादित्वेनैत्वपूर्वलोपनिषेधे प्राप्ते ॥ ७९३ तृफलभजत्रपां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वक्तव्यौ ११२ ॥ फेलतुः फेलुः । फेलिथ । फल्यात् । फलिता । फलिष्यति । अफलिप्यत् । लघ्वकारोपधत्वेन वृद्धिविकरूपे प्राप्ते ॥ ७९४ लान्तस्याकारस्य सौ नित्यं वृद्धिर्वाच्या ११३ ॥ अफालीत् । जि जये । जयति । जयेत् । जयतु । अज. यत् ॥ ७९५ सपरोक्षयोर्जेर्गिः ११४ ॥ सप्रत्यये परोक्षे च जि. जय इति धातोगिरादेशो भवति ॥ जिगाय जिग्यतुः । जिग्युः । जिगयिथ-जिगेथ । जीयात् । जेता । जेष्यति । अजेष्यत् । अजैपीत् अजैष्टाम् अजैषुः । कृष् विलेखने । कर्षति । कपेत् । कर्षतु । अकर्षत् । चकर्ष । उपाधाया लघोः (सू० ७३५) चकृषतुः चकृषुः । चकर्षिथ । कृष्यात् । गुणे कृते ॥ ७९६ रारो झसे दृशाम् ११५॥ दृश्सृज्कृष्मृश्तृप्हप्स॒पां झसे परे अरो रो भवति ।। रार इति तन्त्रोपात्तम् । तेन रा आरः र अरः। सकृदुच्चरितमनेकोपकारकं तन्त्रम् । ष्टुत्वम् । क्रष्टा ॥ ७९७ कृषादीनां रो वा वक्तव्यः ११६ ॥ कष्टी । रारो झसे दृशाम् (सू० ७९६) ।।. ७९८ षढोः कः से ११७ ॥ धातोः षकारढकारयोः कत्वं भवति सकारे परे ॥ किलात्षः सः कृतस्य (सू० १४१ ) कषसंयोगे क्षः (सू० २४२) क्रक्ष्यति-कक्ष्यति । अक्रक्ष्यत्-अकक्ष्यत्-अक्राक्षीत्। अनिटो नामिवतः ( सू० ७५४ ) अकार्की ॥ ७९९ कृपादीनां वा सिर्वक्तव्यः ११८ ॥ 'कृष् स्पश् मृष् तृप् दृप्' एते कृषादयः तत्पक्षे ॥ ८०० हशषान्तात्सक ११९ ॥ हकारान्तात् शकारान्तात् षकारान्ताच नाम्युपधादविद्यमानेटो दिवादौ परे सक्प्रत्ययो भवति दृशं वर्जयित्वा ॥ सेरपवादः ॥.अकृक्षत्- अकृक्षताम् अकृ.