________________
१३८ सारस्वतव्याकरणम्। [वृत्तिः २ अतप्स्यत् । अताप्सीत् । क्रमु पादविक्षेपे ॥ ७८५ क्रमभ्रमुत्रसिश्रुटिलश्भ्राशमलाशो वा यः प्रत्ययो वक्तव्यः १०४ ॥ चतुषु । क्राम्यति ॥ ७८६ क्रमः पे चतुषु दीर्घता वक्तव्या १०५॥ कामति । काम्येत् कामेत् क्राम्यतु कामतु । अक्राम्यत् अक्रामन् । चक्राम । क्रम्यात् । क्रमिता । क्रमिष्यति । अक्रमिष्यत् । अक्रमीत् । यम उपरमे ॥ ७८७ गमां छः १०६ ॥ गम्यम्इषूणां छो भवत्यपि ॥ यच्छति । यच्छेत् । यच्छतु । अयच्छत् । ययाम येमतुः येमुः। येमिथ-ययन्थ । यम्यात् । यन्ता । यस्यति । अयंस्यत् ॥ ७८८ आदन्तानां यमिरमिनमीनां सेरिट सक् च पे वक्तव्यौ १०७ ॥ अयंसीत् अयंसिष्टाम् अयंसिषुः। णमु प्रहत्वे शब्दे च। नमति । नमेत् । नमतु । अनमत् । ननाम नेमतुः नेमुः । नेमिथननन्थ । नम्यात् । नन्ता । नस्यति । अनंस्यत् । अनंसीत् अनंसिष्टाम् अनंसिषुः । गम्ल गतौ । लकारो लित्कार्यार्थः । गच्छति । गच्छेत् । गच्छतु । अगच्छत् । जगाम ॥ ७८९ गमां खरे १०८॥ गम् हन् जन् खन् घस् एतेषामुपधाया लोपो भवति कृित्यङे खरे ॥ जग्मतुः जग्मुः । जगमिथ जगन्थ । गम्यात् । गन्ता ॥ ७९० हनृतः स्यपः १०९ ॥ हन्तेर्ऋकारान्तात्स्यप इडागमो भवति गमेश्व पे ॥ गमिष्यत् । अगमिष्यत् ॥ ७९१ लित्पुषादेः ११० ॥ लितो धातोः पुषादेवुतादेश्च ङप्रत्ययो भवति दिवादौ परस्मैपदे । सेरपवादः ॥ अङे इत्युक्तेनोंपधालोपः ॥ अगमत् अगमताम् अगमन् । इषु इच्छायाम् । इच्छति । इच्छेत् । इच्छतु । ऐच्छत् । इयेष ईषतुः ईषुः । इयेषिथ । इष्यात् ॥ ७९२ इषुसहलुभरिषरुषामनपि तस्येड्या वक्तव्यः १११ ॥ एपिता-एष्टा । एषिष्यति । ऐषिष्यत् । ऐषीत् ऐषिष्टाम् ऐषिषुः ॥ त्रिफला विशरणे । फलति।