________________
सू० ७७९-७९२] भ्वादयः परस्मैपदिनः १
१३७
I
वेता- अजिता । वेष्यति - अजिष्यति । आजिष्यत् अवेष्यत् । आजीत् ! धातोर्नामिनः ( सू० ७६९ ) से ( सू० ७३६ ) अवैषीत् । ष्टुत्वम् । अवैष्टाम् अवैषुः । क्षि क्षये । क्षयति । क्षयेत् । क्षयतु | अक्षयत् । चिक्षाय । नुधातोः ( सू० ७७६ ) चिक्षियतुः ॥ ७७९ ये ९८ ॥ अनपि ॥ अनपि यकारे पूर्वस्य दीर्घो भवति ॥ क्षीयात् क्षेता क्षेष्यति अक्षेष्यात् । धातोर्नामिनः ( सू० ७६९ ) अक्षैषीत् अक्षैष्टाम् अक्षैषुः । कटे वर्षावरणयोः । कटति । कटेत् । कटतु । अकटत् । चकाट || ७८० हयन्तक्षणश्वसिजागृहसादिवर्ज सेटि सौ न वृद्धिः ९९ ।। हसादय एकारेतः । अकटीत् अकटिष्टाम् अकटिषुः । गुपू रक्षणे ॥ ७८१ आयः १०० ॥ गुपू - धूण्विच्छिपणिपनिभ्यः खार्थे आयः प्रत्ययो भवति ।
वा || उपधाया गुणः ॥ ७८२ स धातुः १०१ ॥ स यङादिप्रत्ययान्तः शब्दो धातुसंज्ञो भवति ॥ धातुत्वात्तबादयः । गोपायति । गोपायेत् । गोपायतु । अगोपयत् । कासादिप्रत्ययादाम् (सू०७६६ ) गोपायांचकार । गोपायामास । गोपायांबभूव । जुगोप ॥ ७८३ यतः १०२ ॥ यकारस्याकारस्य च लोपो भवत्यनपि ॥ गोपाय्यात्गुप्यात् । गोपायिता - गोपिता । ऊदितो वा ( सू० ७५१ ) गोप्ता । गोपायिष्यति-गोपिष्यति-गोप्स्यति । अगोपायिष्यत् - अगोपिष्यत्-अगोप्स्यत् । अगोपायीत्- अगोपीत् । अनिटो नामिवतः ( सू० ७५४ ) अगौप्सीत् । झसात् (सू० ७५६ ) अगौप्ताम् । एवं धूप् सन्तापे । धूपायति । धूपायांचकार । धूपायामास । धूपायांबभूव । दुधूप । दीर्घोपधत्वान्न गुणः । तप सन्तापे । तपति । तपेत् । तपतु । अतपत् । तताप तेपतुः तेपुः । तेपिथ || ७८४ अत्वतो नित्यानिटस्थपो वेट् १०३ ॥ ततप्थ । तप्यात् । तप्ता । तप्स्यति ।
1