________________
३४ सारस्वतव्याकरणम् ।
[वृत्तिः१ सर्वया सर्वाभ्याम् सर्वाभिः । सर्वा डे इति स्थिते ॥ २०४ यटोच्च ९॥ आबन्तात्सर्वादेः परस्य यटः सुडागमो भवति पूर्वस्य चापोकारो भवति । सर्वस्यै सर्वाभ्याम् सर्वाभ्यः । सर्वस्याः सर्वाभ्याम् सर्वाभ्यः । सर्वस्याः सर्वयोः । (आमः। आबन्तात्सर्वादेः परस्यामः सुडागमो भवति ) आम्डेनियश्च (सू० १८३ ) सर्वस्याम् सर्वयोः सर्वासु । हेसर्वे हेसर्वे हेसर्वाः ॥ एवं विश्वादीनां सर्वाशब्दवद्रूपं ज्ञेयम् ॥ उभयशब्दस्य द्विवचनटाबविषयत्वादन्यत्र प्रयोगः कर्तव्यः । नदीशब्दवद्रूपं ज्ञेयम् । द्वितीयातृतीयाशब्दयोस्तु उित्सु वा सर्वाशब्दवद्रूपं ज्ञेयम् ॥प्रथमादयो गङ्गाशब्दवत् । द्वयीत्रयीद्वितयीत्रितयीकतिपयीशब्दास्तु नदीवत् ॥ सोमपाः पूर्ववत् । जराशब्दस्य भेदः ॥ आकारान्तो जराशब्दः ॥ २०५ जरायाः स्वरादी जरस्खा वक्तव्यः १०॥ जर आप् इति स्थिते । दीर्घः । आपः (सू०१९६) इति सेलोपः । जरा जरसौ जरे-जरसः जराः। जरसं-जराम् जरसौ-जरे जरसः जराः । जरसा-जरया जराभ्याम् जराभिः । जरसे-जरायै जराभ्याम् जराभ्यः । जरसः-जरायाः जराभ्याम् जराभ्यः । जरसःजरायाः जरसोः जरयोः जरसां-जराणाम् । जरसि जरायाम् जरसोःजरयोः जरासु । हेजरे हेजरसौ हेजरे हेजरसः-हेजराः। तदन्तविधिरत्रेव्यते । एकदेशविकृतमनन्यवद्भवतीति न्यायात् । केचिट्टादाविनं अत आञ्चेतीच्छन्ति । जरसः खरादौ निर्जरस्यापि भवति । निर्जरः निर्जरसौ निर्जरौ निर्जरसः-निर्जराः।निर्जसरम्-निर्जरम् निर्जरसौ-निर्जरौ निर्जरसः-निर्जरान् । निर्जरसिना-निर्जरसा- निर्जरेण निर्जराभ्याम् ।। २०६ मिस ऐस वक्तव्यः ११॥ निर्जरसैः-निर्जरैः । निर्जरसेनिर्जराय निर्जराभ्याम् निर्जरेभ्यः । निर्जरसः-निर्जरसात् निजरात् निर्जराभ्याम् निर्जरेभ्यः । निर्जरसः-निर्जरस्य निर्जरसोः निर्जरयोः