SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सू०२०७-२१४] स्वरान्ताः स्त्रीलिङ्गाः ७ ३५ निर्जरसाम्-निर्जराणाम् । निर्जरसि-निर्जरे निर्जरसोः-निर्जरयोः निर्जरेषु । हेनिर्जर हेनिर्जरसौ-हेनिर्जरौ हेनिर्जरसः हेनिर्जराः ॥ इकारान्तः स्त्रीलिङ्गो बुद्धिशब्दः । तस्य प्रथमाद्वितीययोः हरिशब्दवत्प्रक्रिया । बुद्धिः। औ यू (सू० १५८) बुद्धी बुद्धयः। हेबुद्धे हेबुद्धी हेबुद्धयः । बुद्धिम् बुद्धी बुद्धीः । स्त्रीलिङ्गत्वान्नत्वाभावो विशेषः । पुंस इति विशेषणास्त्रियां शसः सकारस्य नकारादेशो न भवति । बुद्ध्या बुद्धिभ्याम् बुद्धिभिः ॥ २०७ इदुद्भ्याम् १२ ॥ स्त्रियां वर्तमानाभ्यामिकारोकाराभ्यां परेषां ङितां वचनानां वा अडागमो भवति ॥ इ यं खरे (सू० ३३) ए ऐ ऐ (सू० ४४) बुद्ध्यै । ङिति (सू०१६२) ए अय् (सू० ४१)। बुद्धये बुद्धिभ्याम् बुद्धिभ्यः । बुद्ध्याः । ङस्य (सू० १६३ ) बुद्धेः बुद्धिभ्यां बुद्धिभ्यः । बुद्ध्याः-बुद्धेः बुद्ध्योः बुद्धीनाम् ॥ २०८ स्त्रियां वोः १३ ॥ स्त्रियां इश्च उश्च यू तयोः । इवर्णान्तादुवर्णान्ताच्च स्त्रियां वर्तमानात्परस्य डेरामादेशो भवति ॥ बुद्ध्याम् । अडागमाभावे आमोऽप्यभावः । डेरौ डित् (सू० १६४) बुद्धौ बुद्ध्योः बुद्धिषु ॥ एवं मतिभूतिधृतिकान्तिगतिरुचिप्रभृतयः ॥ एवं धेनुरज्जुतनुप्रभृतयोप्युकारान्ताः स्त्रीलिङ्गा एतैरेव सूत्रैः सिध्यन्ति॥धेनुः धेनू धेनवः।धेनुम् धेनू धेनूः। स्त्रीलिङ्गत्वान्नत्वाभावः। धेन्वा धेनुभ्याम् धेनुभिः । धेन्वै-धेनवे धेनुभ्याम् धेनुभ्यः । धेन्वाः-धेनोः धेनुभ्याम् धेनुभ्यः धेन्वाः-धेनोः धेन्वोः धेनूनाम्।धेन्वाम् धेनौ धेन्वोः धेनुषु । हेधेनो हेधेनू हेधेनवः ॥ ईबन्तः स्त्रीलिङ्गो नदीशब्दः ॥ हसेपः सेोपः ( सू० १५६ ) नदी नद्यौ नद्यः । नदीम् नद्यौ नदीः । नद्या नदीभ्याम् नदीभिः ॥ २०९ ङितामद १४ ॥ स्त्रियां वर्तमानादीकारान्तादूकारान्ताच्च परेषां ङितां वचनानामडागमो भवति ॥ नद्यै नदीभ्याम् नदीभ्यः । नद्याः नदीभ्याम्
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy