________________
सू० १९६-२०६] स्वरान्ताः स्त्रीलिङ्गाः ७
स्वरान्ताः स्त्रीलिङ्गाः ७ अथ खरान्ताः स्त्रीलिङ्गाः कथ्यन्ते । तत्र आवन्तस्त्रीलिङ्गो गङ्गाशब्दः । गङ्गा सि इति स्थिते ॥ १९६ आपः १॥ आबन्तात्परस्य सेर्लोपो भवति । गङ्गा ॥ १९७ औरी २ ॥ आबन्तात्पर औरीकारमापद्यते । अ इ ए (सू० ४३ ) गले गङ्गाः ॥ १९८ धिरिः ३ ॥ आबन्तात्परो धिरिर्भवति हेगङ्गे हेगङ्गे हेगङ्गाः । गङ्गाम् गङ्गे गङ्गाः ॥ १९९ टौसोरे ४ ॥ आबन्तस्य टौसोः परयोरेत्वं भवति ॥ ए अय् (सू० ४१ ) गङ्गया गङ्गाभ्याम् गङ्गाभिः ॥ २०० ङितां यत् ५ ॥ आबन्तात्परेषां डेङसिङस्डि इत्येतेषां ङितां वचनानां यडागमो भवति। टकारः स्थाननियमार्थः ॥ गङ्गायै गङ्गाभ्याम् गङ्गाभ्यः । गङ्गायाः गङ्गाभ्याम् गङ्गाभ्यः । गङ्गायाः गङ्गयोः गङ्गानाम् । आम्डेर्नियश्च (सू० १८३) गङ्गायाम् गङ्गयोः गङ्गासु ॥ एवं अम्बाअक्काअल्लाप्रभृतयः । अम्बा अम्बे अम्बाः। शेषं गङ्गावत्॥२०१अम्बादीनां धौ हवः ६॥ अम्बादीनां धौ परे हखो भवति ॥ हेअम्ब हेअम्बे हेअम्बाः ॥ यथाम्बाशब्दो द्विखरो मात्रर्थः । एवं ये द्विस्वरा मात्रास्तेषां धौ परे हस्खता स्यात् । हेअक्क हेअक्के हेअक्काः ॥ हेअल्ल हेअल्ले हेअल्लाः ॥ अम्बादीनामिति कोऽर्थः । अम्बावाचकानां जननीवाचकानां द्विस्वराणां शब्दानां घौ परे हखो भवति ॥ २०२ डलकवतीनां न ७ ॥ डलकवतीनां अम्बादीनां धौ परे हखो न भवति । असंयोगा डलका ग्राह्याः । असंयोगा इति किम् । हेअम्बाडे हेअम्बाले हेअम्बिके ॥ एवं श्रद्धामेधाविद्याशालामालाहेलादोलाप्रभृतयः ॥ सर्वादीनां तु उित्सु विशेषः ॥ २०३ आवतः स्त्रियाम् ८ ॥ अकारान्तानाम्नः स्त्रियां वर्तमानादाप् प्रत्ययो भवति । सर्वा सर्वे सर्वाः । सर्वाम् सर्वे सर्वाः ।