SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सारखतव्याकरणम् । [वृत्तिः १ धिलोपः । उद्यदयम् उद्यदयौ उद्यदयः । उद्यदया उद्यदेभ्याम् उद्यदेभिः । उद्यदये उद्यदेभ्याम् उद्यदेभ्यः । उद्यदेः उद्यदेभ्याम् उद्यदेभ्यः । उद्यदेः । ङस्य (सू० १६३ ) इत्यकारलोपः । उद्यदयोः उद्यदयाम् । उद्यदयि उद्यदयोः उद्यदेषु ॥ ऐकारान्तः पुंलिङ्गः सुरैशब्दः ॥ १९२ रैस्भि ७२ ॥ रैशब्दस्याकारादेशो भवति सकारभकारादौ विभक्तौ परतः । सुराः सुरायो । खरादौ सर्वत्रायादेशः । सुरायः । सुरायम् सुरायौ सुरायः । सुराया सुराभ्याम् सुराभिः। सुराये सुराभ्याम् सुराभ्यः । सुरायः सुराभ्याम् सुराभ्यः । सुरायः सुरायोः सुरायाम् । सुरायि सुरायोः सुरासु । हेसुराः हेसुरायो हेसुरायः ॥ एवं रैशब्दः॥ ओकारान्तः पुंलिङ्गो गोशब्दः । गो सि इति स्थिते ॥ १९३ ओरौ ७३ ॥ ओकारस्यौकारादेशो भवति पञ्चसु आदिषु परेषु । गौः। औ आव् (सू० ४८) गावौ गावः ॥ १९४ आम् शसि ७४ ॥ ओकारस्यात्वं भवति अमि शसि च परे । गाम् । औ आव् (सू०४८ ) गावौ गाः। गवा गोभ्याम् गोभिः । गवे गोभ्याम् गोभ्यः । ङस्य ( सू० १६३ ) इत्यकारलोपः । गोः गोभ्याम् गोभ्यः । गोः गवोः गवाम् ॥ १९५ अन्ते गोराम् छन्दसि ७५ ॥ ऋगन्ते वर्तमानस्य गोशब्दस्यामो नुडागमो भवति। गोनाम् । गवि गवोः गोषु । हेगौः हेगावौ हेगावः । औकारान्तः पुंलिङ्गो ग्लौशब्दः । तस्य हसादावविशेषः । स्वरादौ आवादेशः। ग्लौः ग्लावौ ग्लावः । हेग्लौ हेलावी हेग्लावः । ग्लावम् ग्लावौ ग्लावः । ग्लावा ग्लौभ्याम् ग्लौभिः । ग्लावे ग्लौभ्याम् ग्लौभ्यः । ग्लावः ग्लोभ्याम् ग्लौभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । इत्यादि ॥ इति खरान्ताः पुंलिङ्गाः ॥ ६ ॥ १. ग्लौश्चन्द्रः । ग्लौर्मगावः कलानिधिः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy