SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः२ उच्च आश्च वृ तस्मात् वुः । उवर्णान्ताहवर्णान्ताच्च ग्रहगुहोश्च से परे इट् न भवति ॥ १०७७ नानिटि से ३॥ इजिते सप्रत्यये परे गुणो न भवति ॥ तृ प्लवनतरणयोः ॥ १०७८ नाम्यन्तात्परस्य सस्य कित्वं वाच्यम् ४ ॥ ऋत इर (सू० ८२०) तरितुमिच्छति तितीर्षति । अतितीर्षीत् ।। डुकृञ् करणे । कर्तुमिच्छति चिकीपति ॥ १०७९ से दीघः ५ ॥ से परे पूर्वस्य दी! भवति ॥ चिञ् चयने ॥ १०८० चिनोतेः सणादौ कित्वं वा वाच्यम् ६॥ चिकीषति चिचीषति । जि जये । सपरोक्षयोर्जेर्गिः (सू० ७०९२) जेतुमिच्छति जिगीषति । यु मिश्रणे । युयूषति । ड्डपचर पाके । यः से (सू० ८४०) पक्तुमिच्छति पिपक्षति ॥ पातुमिच्छति पिपासति ॥ १०८१ गौणः प्रकृत्यर्थोऽन्यत्र सात् ७ ॥ प्रकृतिप्रत्यययोर्मध्ये प्रत्ययार्थः प्रधानीभूतः । अत्र सप्रत्यये तु वैपरीत्यं प्रकृत्यर्थः प्रधानीभूतः । तेन काष्ठेन पिपक्षतीत्यत्र तृतीयायाः पाकेन संबन्धो न विच्छया ॥ मृङ् प्राणत्यागे । मर्तुमिच्छति मुमूर्षति । पोरुर् (सू० ९४८) पृ पालनपूरणयोः । पुपूर्षति ॥ १०८२ वृ इत्यस्य उवाच्यः ८ ॥ वृङ् वरणे । वरितुमिच्छति वुवूर्षति ।। १०८३ रुदविदमुषग्रहिस्वपिप्रच्छः सः किद्वाच्यः ९॥ रुदिर अश्रुविमोचने । रुरुदिषति । विद् ज्ञाने । विविदिषति । मुष स्तेये । मुमुषिषति । ग्रह उपादाने । हो ढः (सू० २४३ ) आदिजबानाम् (सू० २३९) पढोः कः से (सू० ७९८) षत्वम् । क्षः गृहीतुमिच्छति जिघृक्षति ॥ सुषुप्सति । प्रच्छ ज्ञीप्सायाम् ॥ १०८४ कृगृधुप्रच्छसिङवशूङर्ती सखेड वक्तव्यः १० ॥ पिपृच्छिषति ।। करितुमिच्छति चिकरिषति । जिगरिषति जिगलिषति दिदरिषति । दिधरिषति सिमयिषति ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy