SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सू० १०८५-१०९६] सप्रक्रिया २८ १९७ खरादेः परः (सू० १०३८) अञ्जिजिषति । अशिशिषते । अरिरिषति । अद भक्षणे । सिसयोः (सू० ८८४) इति घसादेशः । सस्तोऽनपि (सू० ८३२) अत्तुमिच्छति जिघत्सति ॥ १०८५ हन्तीडोः सो णित् ११॥ हन्तीडोर्धात्वोः सो णिद्भवति ॥ हन् हिंसागत्योः । द्वित्वम् । पूर्वस्य हसादिः शेषः। (सू०७३९) कुहोश्चः (सू०७४६) झपानां जबचपाः (सू०७१४)। यः से (सू०८४०) हनो ने (सू० २६२) अत उपधायाः (सू० ७५७ ) नश्चापदान्ते झसे ( सू० ९५) । स धातुः (सू०७८२ ) । अप् (सू० ६९१) । अदे (सू० ६९५) हन्तुमिच्छति जिघांसति ॥ १०८६ इङः से गम् वाच्यः १२ ॥ अध्येतुमिच्छति अधिजिगांसते ॥ १०८७ गमे से इड्वाच्यः १३ ॥ गन्तुमिच्छति जिगमिषति ॥ १०८८ इस्से १४ ॥ अपित्दाधारभ्लभशक्पद्पत् मीमिमाङ्मेडहिंसार्थराधां खरस्य से परे इसादेशो भवति पूर्वस्य च लोपः ॥ दित्सति। धित्सति । स्कोराद्योश्च (सू० ३०१) खसे चपा (सू० ८९) रिप्सति । लिप्सति । शिक्षते । पित्सते ॥१०८९ पतो वेद .१५ ॥ पित्सति पिपतिषति । इट्पक्षे इसपूर्वलोपो न भवतः ॥ मीञ् हिंसायाम् । इमिञ् प्रक्षेपे । मित्सति । माङ् माने । मेङ् शोधने । मित्सते । राध संसिद्धौ । रित्सति ॥ १०९० आप्नोतेरीः १६ ॥ आप्नोतेराकारस्येकारो भवति से परे पूर्वस्य च लोपः ॥ आप्ल व्याप्तौ । ईप्सते ॥ १०९१ अशेरनायो वा १७ ॥ अशेरिच्छायां संस्थाने वा अनायप्रत्ययो भवति ॥ अशनायति । अशिशिषति ॥ १०९२ पततनदरिद्राभ्यः से वा इड्डाच्यः १८ ॥ तितनिषति तितंसति ॥ १०९३ तने से वा दीर्घः १९ ॥ तितांसति । दिदरिद्रिषति दिदरिद्रासति ॥ १०९४ वेडिस्स दीर्घता च
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy