________________
१९८
सारस्वत व्याकरणम् ।
[ वृत्तिः २
२० ॥ दम्भिज्ञप्योर्धात्वोर्वा इड् भवति सप्रत्यये परे ॥ यदा नेट् तदा किम् । अनयोर्दम्भिज्ञप्योर्धात्वोः सानुखारस्य स्वरस्य इस् भवति इकारस्य दीर्घता दम्भेरिकारस्य वा दीर्घता । चकारात्पूर्वस्य लोपः ॥ दम्भ दम्भने । आत्मनः दम्भितुमिच्छति दिदम्भिषति । द्वित्वम् । इस् । आदिजवानाम् (सू०२३९ ) । खसे चपा झसानाम् ( सू० ८९ ) स्कोराद्योश्च ( सू० ३०१) वा दीर्घता । धीप्सतिधिप्सति । ज्ञाऽवबोधने । इच्छायामात्मनः सः ( सू० १०७५ ) । द्विश्व (सू० ७१० ) । ह्रखः ( सू०७१३) पूर्वस्य हसादिः शेषः ( सू० ७३९) । यः से ( सू० ८४० ) । वा इट् । गुणः (सू० ६९२) ए अय् ( सू० ४१ ) । खरहीनम् (सू० ३६ ) षत्वम् । स धातुः (सू० ७८२) तिप् अप् ( सू० ६९९ ) । अदे ( सू० ६९५ ) आत्मनः ज्ञापयितुमिच्छतीति जिज्ञापयिषति । पक्षे । जिज्ञापि स इति स्थिते । सस्य इस् तस्य दीर्घता । पूर्वस्य लोपः । जे : ( सू० ८४४ ) । स्कोराद्योश्च ( सू० ३०१ ) ज्ञीप्सति । ज्ञप ज्ञानज्ञापनयोः । जिज्ञापयिषति । मितां हखः ( सू० १०३५ ) जिज्ञापयिषति ज्ञीप्सति ॥ इति सप्रक्रिया ॥ २८ ॥
यप्रक्रिया २९
अथ यज्ञप्रक्रिया निरूप्यते॥१०९५ अतिशये इसादेर्यङ् द्विश्व १ ॥ हसादेरेकखराद्धातोरतिशयेऽर्थे यड् प्रत्ययो भवति तस्मिन्सति धातोर्द्वित्वम् ॥१०९६ यङि २ ॥ यङि सति लुकि च पूर्वस्य नामिनो गुणो भवति ॥ सधातुः ( सू० ७८२) ङित्वादात्मनेपदम् । अप् (सू० ६९१) अतिशयेन भवतीति बोभूयते बोभूयेत । बोभूयताम् । अबोभूयत । बोभूयांचक्रे । बोभूयिषीष्ट । बोभूयिता । बोभूमि