SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सू० ११९०-११९७] कृदन्तप्रकरणम् १ २१३ इति मर्ता । डुभृधारणपोषणयोः। बिभर्तीति भर्ता ॥११९० कृतः ४॥ सेट्धातोः परस्य कृत्प्रत्ययस्य वसादेरिडागमो भवति ॥ कृत इदं सूत्रं सेधातुविश्यम् ॥ स्वसूतिसूयतिधूत्रधादीनामिका वक्तव्यः (सू० ७५२) ञ् प्राणिप्रसवे। सूते वा सूयतेऽसौ सोता-सविता। स्तृ शब्दे । गुणः (सू० ६९२ ) वा इट् । खरतीति खरिता खतः । ठुञ् स्तुतौ । स्तौतीति स्तोता । एध वृद्धौ । एधतेऽसौ एधिता। यु मिश्रणे । यौतीति यविता । रु शब्दे । रौतीति रविता । णु स्तुतौ । नौतीति नविता । भू सत्तायाम् । भवतीति भविता । गुपू रक्षणे ॥ ऊदितो वा (सू० ७५१ ) ऊदितो धातोरिडा भवति । गोपायति गोपिता-गोपायिता-गोप्ता । षिधू शास्त्रे माङ्गल्ये च । सेधिता-सेद्धा ॥ इषुसहलुभरिषरुषामनपि नस्येड्डा भवति (सू० ७९२) इषु इच्छायाम् । इच्छतीति एषिता-एष्टा । लुम् विमोहने । लुभ् गाये । लुभ्यतीति लोभिता । इडभावपक्षे । झबे जवाः (सू० ३५)। तथोर्घः (सू० ७५३ ) लुभ्यतीति लोब्धा । रिष् बन्धने । रेषतीति वा रिष्यतीति रेषिता-रेष्टा । रुष क्रोधे । रोषतीति रोषिता-रोष्टा । षह मर्षणे । आदेः ष्णः स्वः (सू० ७४८)। हो ढः (सू० २४३) तथोघः (सू० ७५३ )। ष्टुभिः ष्टुः (सू० ७९)। ढि ढो लोपः (सू० ८०२)। सहिवहोरोदवर्णस्य (सू० ८६१) सहतेऽसौ सोढा। वह प्रापणे । वहतीति वोढा ॥ ११९१ युवोरनाकौ ५॥यु वु इत्येतयोरन अक इत्येतवादेशौ भवतः यथासंख्येन ॥ णित्त्वादृद्धिः । अत उपधायाः । (सू० ७५७ ) पचति वा पाचयतीति पाचकः पाचकौ पाचकाः । देवशब्दवत् । पठति वा पाठयतीति पाठकः । एवं याचते वा याचयतीति याचकः । भवति वा भावयतीति भावकः । लुनाति वा लावयतीति लावकः । पुनाति
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy