SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम् । वृत्तिस्तृतीया । कृदन्तप्रकरणम् १ निजजनैर्विधिना निखिलापदो झटिति यो विनिवर्तयति स्मृतः । जलधिजापरिरम्भणलालसो नरहरिः कुरुतां जगतां शिवम् ॥ १ ॥ अथ कृदन्तप्रक्रिया निरूप्यते ॥ ११८७ कृत्कर्तरि च १ ॥ वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि च भवन्ति ॥ चकारा - द्भावकर्मणोरपि ॥ ११८८ स्वतत्रः कर्ता २ ॥ क्रियायां स्वातत्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ शुद्धो धात्वर्थो भावः ॥ कर्तु - रीप्सिततमं कर्म ( सू० ४१२ ) । तथायुक्तं चानीप्सितम् (सू० ४१३ ) विषं भुङ्क्ते देवदत्तः । अन्नं भुङ्क्ते देवदत्तः ॥ १९८९ तृणौ ३ ॥ धातोस्तृवुणौ प्रत्ययौ भवतः ॥ डुपचष् पाके । पचू तृ इति स्थिते । • चोः कुः ( सू० २८५ ) पक् तृ इति स्थिते । कृत्तद्धितसमासाश्च प्रातिपदिकसंज्ञा इति केचित् । इति नामत्वम् । नामसंज्ञायां स्यादिर्विभक्तिर्भवति । तुर् ( सू० १८९ ) । सेरा ( सू० १८४ ) पचतीति पक्ता पक्तारौ पक्कारः । पक्तारम् । पुंलिङ्गे पक्ता । ष्टितः ( सू० ३७४ ) स्त्रियां पत्री । नपुंसके पक्त पक्तृणी पक्त्तृणि इत्यादि ॥ डुकृञ् करणे । करोतीति कर्ता । हृञ् हरणे । हरतीति हर्ता । मृङ् प्राणत्यागे । म्रियते
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy