SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सू० १९८३ - ११८९] लकारार्थप्रक्रिया ३४ लकारार्थप्रक्रिया ३४ I अथ लकारार्थप्रक्रिया ॥ ॥ हठपौनःपुन्ययोर्लोण्मध्यमपुरुषैकवचनान्तता निपात्यते । सर्वकाले सर्वपुरुषविषये अतीते काले ॥ पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्य महर्दिवं दिवः ॥ २८ ॥ १९८३ वर्तमानार्थाया अपि विभक्तेः स्मयोगे भूतार्थता वक्तव्या १ ॥ आह स्म हारीतः । यजति स्म युधिष्ठिरः || १९८४ वैचित्यापह्नत्रयोरल्पकालेऽपि णादिर्वक्तव्यः २ ॥ सुप्तोऽहं किल विललाप । नाहं कलिङ्गं जगाम ॥ ११८५ यावत्पुरानिपातयोयोगे भविष्यदर्थे तिबादयः लट् ३ ॥ पुरा करोति । यावत्क - रोति । करिष्यतीत्यर्थः ॥ १९८६ स्मृत्यर्थधातुयोगे भूतेऽर्थे लुट् ४ ॥ स्मरसि मित्र यदुपकरिष्यसि । उपकुरुथा इत्यर्थः ॥ ॥ इति लकारार्थप्रक्रिया ॥ ३४ ॥ २११ धातूनामप्यनन्तत्वान्नानार्थत्वाच्च सर्वथा । अभिधातुमशक्यत्वादाख्यातख्यापनैरलम् ॥ २९ ॥ इति श्रीअनुभूतिस्वरूपाचार्य विरचितायां सारस्वतप्रक्रियायामाख्यातप्रक्रिया समाप्ता ॥ ;
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy