________________
२१०
सारस्वतव्याकरणम् । [वृत्तिः २ - क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्ध्यति ।
सुकरैः स्वैर्गुणैर्यस्मात्कर्मकर्तेति तद्विदुः ॥२४॥ तत्राप्येतदेवोदाहरणम् ॥ ११८१ कर्मवत्कर्मणा तुल्यक्रिया १३ ॥ कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति ॥ लूयते केदारः खयमेव । लुलुवे । अलावि अलाविषाताम् । पच्यते ओदनः खयमेव ॥ भिदिर विदारणे । भिद्यते काष्ठं खयमेव । अमेदि । १९८२ द्रुहस्नुनमां कर्मकर्तरि यगिणौ न १४ ॥ दुग्धे नुते गौः खयमेव । नमते दण्डः स्वयमेव । अदुग्ध । अलोष्ट । अस्लोविष्ट । अनस्त ॥
॥ अथ द्विकर्मकाः ॥ दुह्याच्पच्दण्ड्धिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्थानीहकृष्वहाम् ॥ २५ ॥ न्यादयो ज्यन्तनिष्कर्मगत्यार्थी मुख्यकर्मणि । प्रत्ययं यान्ति दुह्यादिौणेऽन्ये तु यथारुचि ॥ २६ ॥ निन्ये विजनमजागरि रजनीमगमि त्वयाचि संभोगम् । गोपी हास्य
मकार्यत भावश्चैनामनन्तेन ॥ २७॥ ___ कर्तुरिष्टमतं प्रधानं कर्म । अन्यदप्रधानम् । नगरं नीयते नागरिकैर्वनेचरः । भोजनं याच्यते यजमानो याचकेन । पृच्छयते पन्थानं पथिकेन पान्थः । शिष्येणाचार्यस्तत्त्वं पृच्छयते । कटश्चिकीर्ण्यते देवदत्तेन । यतः (सू० ७८३) बोभूयते । अनपि च हसात् (सू० १०९७) पापच्यते । तेन पापचिता । अपापचि । इत्यादि ॥ इति भावकर्म-प्रक्रिया ॥ ३३ ॥